Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 570
________________ ५५४ . साहित्यसारम् । [उत्तरार्धे स्थिरो निगूढालंकारी धीरोदात्तो दृढव्रतः। यास्यामि सह जानक्या वनं राज्येन किं मम ॥३॥ निश्चितो धीरललितः कलासक्तः सुखी मृदुः। वेणुं रंणयति स्वैरं कृष्णो गोप्यवशो वने ॥ ४॥ भवदभिप्रेता इत्यपेक्षायां तदुभयं संक्षिपति-उदात्त इति । उदात्तत्वमुदारत्वम् । ललितत्वं सार्वाशिकसुन्दरत्वम् । शान्तत्वं क्वचिदप्यक्षुब्धत्वमिति तद्विशेषलक्षणानि । अथामीषां सामान्यलक्षणमपि संक्षिपति--सर्वोऽपीति। धीरत्वं लोकशास्त्ररीत्यचलखम् । तत्र हेतुः । नायकत्वत इति। तदुक्तं दशरूपककारिकाकृता नेतृप्रकरणे-'नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोकः शुचिर्वाग्मी रूढवंशः स्थिरो युवा । बुद्ध्युत्साहस्थितिप्रज्ञाकलामानसमन्वितः । शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः' इति । अत्र धार्मिक इति चरम विशेषणेनैव लौकिकादिधर्मवत्त्वं तदावेदितम् । ननु तत्र वग्रिमकारिकायामेव । 'भेदैश्चतुर्धा ललितशान्तोदात्तोद्धतैरयम्' इत्युद्धताख्योपि चतुर्थस्तद्भेदः प्रतिपादितः स कथं त्वयात्र नोक्त इतिचेन । नायकत्वत इत्यनेनैव दत्तोत्तरत्वात् । तेनेत्यादिनोक्ततदीयनायकसामान्यलक्षणस्यैवोद्धते स्वप्नेऽप्यसंभावितत्वाच्च । तस्मादन्धपरम्परै.. वेयं प्राचामुद्धतत्वकथेति दिक् ॥ २॥ तत्र धीरोदात्तं विशिष्य लक्षयतिस्थिर इति । निगूढेति विशेषः। दृढेयौदार्यम् । तमुदाहरति—यास्यामीति। यथावा भामिनीविलासे—'आपद्गतः खलु महाशयचक्रवर्ती संदर्शयत्यकृतपूर्वमु. दारभावम् । कालागरुर्दहनमध्यगतः समन्ताल्लोकोत्तरं परिमलं प्रकटीकरोति' इति ॥ ३ ॥ तत उद्देशक्रमप्राप्तं धीरललितमपि तथा लक्षयति-निश्चित इति । अत्रापि स्थिर इत्यादिपूर्वपद्यवल्लक्षणघटकं पूर्वार्धं दशरूपकीयकारिकाकारमैन'उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः' इति पूर्वार्ध कुवलयानन्दे यथा चन्द्रालोकीयमेव गृहीत तद्वदेव संगृहीतमिति ज्ञेयम् । निश्चितः लोकशास्त्रमर्यादानुल्लङ्घननिश्चयवानित्यर्थः । एतेन धीरत्वसामान्यसंग्रहः सूच्यते। मृदुरिति तल्लालित्य. लक्षणं सावौशिकसुन्दरत्वं ध्वन्यते । कलेत्यादि तु तद्विशेषघटकमेव । तमुदाहरति-वेणुमिति । वने वृन्दावने कृष्णः गोप्यवश एव गोपसुन्दरीपारवश्यवि. धुर एव सन् खैरं स्वच्छन्दं यथा स्यात्तथा वेणुं रणयतीति योजना । ननु कथ. मेतत्संभवेत्कात्यायनीव्रतोपाख्यानप्रसिद्धगोपकन्यकागुह्यनिरीक्षणमारभ्य कृष्णस्य । मथुरागमनावधि श्रीमद्भागवतप्रसिद्धासंख्यातशृङ्गारलीलाशालिन इतिचेन । उ. पनयनात्पूर्व कामचारस्य शास्त्रप्रसिद्धत्वात्कृष्णस्य कुब्जासंभोगोत्तरमेव क्षत्रिय. त्वेनोपनयनस्य तत्रैव वर्णितत्वाचेति धर्मशास्त्रवर्मना समाधानम् । नचैवं चेत्तर्हि तत्रैव परीक्षित्प्रश्ने 'धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् । तेजीयसां न दो.

Loading...

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576