Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
रम्भारत्नम् १०] सरसामोदव्याख्यासहितम् ।
विरहोत्कण्ठिता मानवती वासकसजिका। स्वाधीनपतिका चेति मतिश्च युवतिः सताम् ॥ २१ ॥ प्रेयः साक्षात्कृतिर्भूयात्कि मे क्षणगलत्तनोः ।
संपूर्णामृतभे फुल्ले रसाले परभृद्राि ॥ २२॥ न्धद्रव्यकरण्डकभाण्डोपधानानां दुर्लभानां च भवने प्रच्छन्नं निधानम् । मूलकालुकपालक्यमदनाम्रातकैर्वारुकत्रपुसवार्ताककूष्माण्डकालाबुसूरणशुकनासां खयंगुसातिलपर्णिकामन्थलशुनपलाण्डुप्रभृतीनां सौषधीनां च बीजग्रहणं काले वापनं च । खस्य च व्यवहारस्य परेभ्यो नाख्यानं भर्तृमित्रस्य समानायाः स्त्रियाः कौ. शलेनोज्ज्वलतया पाकेन मानेनोपचारैरप्यतिशयीत । सांवत्सरिकमायं संख्याय तदनुरूपं व्ययं कुर्यात् । भोजनावशिष्टान गोरसादेराकृतिकरणम् । तथा तैलगुडयोः कार्पासस्य च सूत्रकर्तनम् । सूत्रस्य वयनम् । शिक्यरज्जुपाशवल्कलसंग्रहणं च कुर्यात् । कुद्दालककुन्दनखण्डनक्षेपणावक्षोदनमित्यादि ॥ २० ॥ ननु भवत्वेवं स्त्रीणां सदृत्तमाहात्म्येन खीयाया एव धन्यतमत्वमथाप्यसौ प्रागुक्तमुग्धादिभेदेन व्यवस्थापि तत्तद्धर्मभेदेन पुनः कतिविधेत्याशङ्कय धर्मभेदानामान. न्त्यात्प्राधान्येन तचातुर्विध्यमेव विधत्ते। विरहेति । यद्यपि रसमजर्यादौ प्रोषितभर्तृकादयोऽष्टौ नायिकाभेदा उक्तास्तथापि तत्रापि सर्वेषां तद्भेदानामनुदाहृतेरनतिप्रयोजकत्वाच्च दिङ्मात्रमेवेदमत्र मयोपन्यस्तमित्याकूतम् । वासकेति । वासः सुरतावासः । खरतिमन्दिरं तत्र सकलशय्यादिसुरतसामय्याया सज्जीभूय पतिं प्रतीक्षते सा वासकसज्जा वासकसज्जैव वासकसज्जिका । प्रोषित भर्तृकायाः प्रवत्स्यत्पतिकायाश्च विरहोत्कण्ठितायामेवान्तर्भावः । पक्षे मानवती वेदान्तमहावाक्यरूपचरमप्रमाणवती । तथा। वासकेति । आत्मरतित्वसामग्रीभूतशमादिमतीत्यर्थः । अतएव स्वेति ॥ २१ ॥ क्रमेणोदाहरति-प्रेय "इत्यादिचतुर्भिः। संपूर्णेति । पूर्णेन्दूदये सतीत्यर्थः । तथा रसाले आने फुल्ले विकसिते सतीति यावत् । परेति । कोकिलकलेनेत्यर्थः। क्षणगलदिति । विशरारुशरीराया इति यावत् । प्रेय इत्यादि स्पष्टम् । पक्षे प्रेयः आत्मा तस्य साक्षात्कृतिरद्वैतब्रह्मत्वेनापरोक्षप्रमितिरित्यर्थः । संपूर्णेति । अखण्डकैवल्यानन्दप्रकाशविषये। रसाले रसं 'रसो वै सः' इति श्रुतेरद्वैतब्रह्मानन्दं लात्यादत्त इति तथा वेदान्त इत्यर्थः । फुल्ले भाष्यादिभिर्विकसिते सतीति यावत् । परेति । गुरुवाचेत्यर्थः । प्रोषितपतिकाधर्मस्तूक्तो वात्स्यायनीये। नायकप्रवासे च मङ्गल. मात्राभरणा दैवतोपवासपरा वार्तायां स्थिता गृहानवेक्षत । शय्या च गुरुजनसमीपे । तदभिमतकार्यप्रतिपत्तिः । नायकाभिमतानां चार्थानामुपस्कारे आव. जने च यत्नः । नित्यनैमित्तिकेषु कर्मसूचितो व्ययः । तदारब्धानां च कर्मणां समापनम् । ज्ञातिकुलसमाजानभिगमनमन्यत्र व्यसनोत्सवाभ्याम् । अभिगमनं च नायकपरिजनानुयातायाः। नातिकालमवस्थानमपरिवर्तितप्रवासवेषता च । गुरु

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576