Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 561
________________ रम्भारत्नम् १०] सरसामोदव्याख्यासहितम् । श्रुत्यन्तेनापि स द्रष्टुं प्रेयांसं संकुचत्यलम् । हृदयं नित्यसद्वृत्तवृद्ध्या मेरुत्वमीहते ॥९॥ प्रेयसा सुमनःशय्यां हातुं व्युत्थाप्यते पिकैः । परमानन्दसंदोहसोल्लासालिङ्गनादियम् ॥१०॥ क्वाम्बरादि व हारादि व स्वयं क च स प्रियः। अद्वैतपरमानन्दात्सैकतानत्वमागता ॥ ११ ॥ विद्या भूमिहिरण्यं च पशुर्धान्यममत्रकम् । मित्रादिः सप्तधेत्यर्थः संग्रहावनवर्धनैः ॥ १२॥ एवं लक्षितासु मुग्धादितिसृष्वपि खीयावस्थास्वथ ताः क्रमादुदाहरति-श्रुत्यन्तेनापीत्यादिक्रमात्रिभिः । तत्राङ्कुरितात्मरतिर्मुग्धेत्येतन्मतं तल्लक्षणम् । प्राचां तु अङ्कुरितयौवना मुग्धेति । अतएव सा खीया सुदृगिति सर्वत्रानुकृष्य योज्यम् । प्रेयांसं निरतिशयस्वप्रेमपात्रीभूतं खपतिमपीत्यर्थः । श्रुत्यन्तेनापि कटाक्षतोऽपीत्येतत् । एवं चात्र संपूर्णदृष्टिस्तु दूरतोपास्तेति फलितम् । तेन लज्जातिशयो व्यज्यते । संद्रष्टुं सम्यगवलोकितुम् । अलं अत्यन्तं नतु यत्किंचित् । संकुचति मुकुलिताक्षी भवतीत्यन्वयः । ननु कामोदयाभावे रहस्यप्येतद्भीत्यादिना संभवत्येवेत्यत आह-हृदयमिति । अस्या इत्यार्थिकम् । लाक्षणिकमिदं तज्जनुषोः स्तनयोरित्याकूतम् । तेन तयोर्निरवकाशत्वेनातिपीनत्वयोग्यता ध्वन्यते। अतएव नित्येत्यादि । ईहते इच्छति । पक्षे श्रुत्यन्तो वेदान्तः । हृदयं चेतः । मेरुत्वमचलत्वम् । एतेन खतो व्युत्थानवती पञ्चमी भूमिः सूच्यते।।९॥प्रेयसेति । अत्र 'पुष्पितात्मरतिर्मध्या'इति खसंमतं मध्याल क्षणं 'समानलज्जामदना मध्या'इति प्राचाम् । प्रेयसा खप्रीति विषयतापन्नखपतिनापि सहेत्यर्थः । सुमनःशय्यां अर्धोन्मीलितमालतीमुकुलतल्पमपीत्यर्थः । हातुं त्यक्तुं । परमेति क्रियाविशेषणमिदम् । अतएव सोल्लासेति । प्रेयस इति शेषः । अथापि इयं कैरपि व्युत्थाप्यते । अपितु कैरपि नैव व्युत्थाप्यते सखीजनैरपि । किंतु ब्राह्म मुहूर्ते खयमेव व्युत्तिष्ठतीत्यर्थः । पक्षे इयं प्रकृतब्रह्मविन्मतिः । शिष्टमुत्तरार्धे यथाश्रुतमेव । आलिङ्गनं परं निर्विकल्पसमाधिकालिकमद्वैतात्मतादात्म्यमेव । अतएव प्रेयसा निरुकात्मना सह सुमनःशय्यां शुद्धचित्तशयनीयम् । हातुं त्यक्तुम् । पिकैः अरण्ये प्रातः कूजद्भिः कोकिलैरेव व्युत्थाप्यत इति संबन्धः । एतेन परतो व्युत्थानादियं षष्ठभूमिरिति द्योत्यते ॥ १०॥ क्वेति । अम्बरं परिहितशाटी। आदिना कञ्चुकी। सा प्रकृता प्रगल्भा खीया । अद्वैतेति । मिथुनीभावेत्यर्थः । पक्षे अम्बरायाकाशादि । हारादि शिवभक्कादि । तेन सप्तमीयम् ॥ ११ ॥ नन्वेवमपि निरुकलक्षणा स्वकीयैवादौ परिणयैकसाध्या सच लोके प्रायोथै विना नैव सिध्यतीति चेत्सत्यम् । अतएवोक्तं वात्स्यायनसूत्रे—'शतायुर्वै पुरुषो विभज्यकालमन्योन्यानुबद्धं परस्परस्यानुपघातकं त्रिवर्ग सेवेत । बाल्ये विद्याग्रहणादीनान्कुर्यात् ।

Loading...

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576