Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 559
________________ रम्भारत्नम् १०] सरसामोदव्याख्यासहितम् । निजदर्शनमात्रेण ब्राह्मण्यं ददती सती। अरुन्धती वसिष्ठान्यं नैव पश्यति कुत्रचित् ॥५॥ इन्द्राग्नियमपाशिष्वप्यात्मप्रेयःसमेष्विपि । मुख्यमेव नलं वने दमयन्ती गिरेरिता ॥६॥ राधादिरेव लोकेऽस्मिन्भवत्यन्वर्थगोपिका । सामान्या सा त्वमान्यैव जगति प्रथिता भृशम् ॥ ७॥ प्रेस देवादिषु त्रिष्वपि तदुदाहरणान्यनुक्रमेणाह-नारदेनेत्यादित्रिभिः । इदमुपाख्यानं शिवपुराणे प्रसिद्धमेव । नारदेन प्रसिद्धेन विष्णौ स्तुते । चोप्यर्थे । पार्वतीयोग्यवरत्वेन हिमाचलनिकटे वर्णिते सत्यपीत्यर्थः । तत्रापि तत्पितुरनु. मोदनं नचेत् किं ततस्तत्राह-पित्राचापीति । ततः किं तदाह-तप इत्याधुत्तरार्धेन । गौरी तु इति तुशब्दः सर्वलोकवैलक्षण्यार्थकः । अतएव तप एव कृत्वा स्वेति समाप्यवधि यथाश्रुतमेव योज्यम् । एतेन निरतिशयत्वमेव रतौ द्योत्यते । पक्षे कलिसंतरणोपनिषद्रीत्या हरेरामेत्याद्यनुष्टुभोक्तषोडशनामभिर्नारदेन विष्णौ स्तुते तथा तत्पित्रा ब्रह्मणोक्तमन्त्रोपदेष्टुत्वात्तस्मिन्ननुमोदितेऽपि सति गौरी निरतिशयशुद्धसत्वात्मकचरमवृत्तिरूपब्रह्मविद्या तु तपः कृत्वैव अहं ब्रह्मास्मीति सविवेचनसंप्रज्ञातमभ्यस्यैव प्रेयोर्धत्वमपि तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा' इति श्रुतेरास्मैकरस्यमप्यगादि. त्यन्वयः ॥ ४ ॥ निजेति । 'उभयोः संनिधाय शिरसी उदकुम्भेनावसिच्य ब्राह्मण्याश्च वृद्धाया जीवपल्या जीवप्रजाया अगार एतां रात्री वसेब्रुवमरुन्धतीं सप्तऋषीनिति दृष्ट्वा वाचं विसृजेत जीवपत्नी प्रजां विन्देयेति' इत्याश्वलायनसूत्रे वधूप्रवेशप्रकरण उक्तत्वात् । अरुन्धती निजेति ब्राह्मण्यमिति ब्राह्मणी च ब्राह्मणश्च ब्राह्मणौ तयोर्भावः ब्राह्मण्यं ब्रह्मनिष्ठवं तद्योग्यतां ददती सती अरुन्धतीत्यादि यथाश्रुतमेव योज्यम् । पक्षे निजेति । अद्वैतात्मसाक्षात्कारैककरणेनैवे. त्यर्थः । अरुन्धतीसमाधिवद्वृत्तिरोधमकुर्वाणा ब्रह्मविद्या । वसिष्ठेति । परमवरिष्ठाद्वैतात्मभिन्नम् । अपरं तु सरलमेव ॥ ५ ॥ इन्द्रेति । गिरा सरखत्या । पक्षे दमयन्ती इन्द्रियदमनशीलात्मविद्या । गिरा 'इन्द्रं मित्रम्' इत्यादिश्रुत्येरिता सती नलं न लाति दृश्यं नैवादत्ते तमद्वैतात्मानमित्यर्थः ॥ ६ ॥ एवं सर्वात्मनोपादेयां खकीयां भूयुदाहृत्यादौ दासान्यविषयां परकीयामुदाहरति-राधादिरेवेत्यर्धेन । आदिना तत्सजातीयान्यगोपिका अपि । अन्वर्थेति । गोपयतीति व्युत्पत्त्या यथार्थश्रीकृष्णाख्यपरपुरुषानुरागगोपनकीत्यर्थः । यथा तद. नुरागस्य तद्देशकालावच्छेदेन भगवद्वचोविना नक्वापि प्राकट्यं तथैव तद्वरस्य ताभिः खरूपगुणादिना संपादितत्वादिति तत्त्वम् । एतेन व्यासादेरुद्धवादेश्व तज्ज्ञानसत्वेपि न क्षतिरित्याकूतम् । पक्षे 'राधसाध संसिद्धौ' इति स्मरणादाधयति अविद्यातव्याप्यजीवेश्वरादितत्कार्यमाकाशादिव्यावहारिकसत्तापनं जडजग

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576