Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
साहित्यसारम् ।
[उत्तरार्ध
रम्भारत्नम् । गुरुवत्करगं कृत्वा शब्दालंकरणं परम् ।
सुदृशं स्वात्मरत्यर्थ संदिशामि सुविस्तरम् ॥१॥ . स्वकीया परकीया च सामान्येति त्रिधा सुदृक् ।
सर्वदा पतिमात्रात्मरतिराद्या निगद्यते ॥२॥ अथ ग्रन्थकृद्दशमरत्नमप्सरोवराख्यं नायिकैकनिरूपकत्वेन यथार्थोचितसमाख्यमारिरिप्सुः प्राक्तनरत्नेन सहास्य सांगत्यं सूचयन् सप्रयोजनमभिधेयविधानं प्रतिजानीते-गुरुवदिति । अत्राहमित्यध्याहारात्कवावमानित्वादिव्यज्यते । गुरुवदाचार्यतुल्यमित्यर्थः । स हि जिज्ञासोः शब्दालंकरणं शब्दब्रह्मपर्याप्तिसंपादनमिति यावत् । करगं हस्तप्राप्तप्रायं कृत्वा यथा सुदृशमद्वैतात्मतत्त्वविद्यामित्यर्थः । तस्या एव सकलसंविच्छोभनत्वात्सौष्ठवम् । स्वेति । स्वप्रमातुश्विदाभासस्य य आत्मा वास्तविकस्वरूपः स्वप्रकाशाद्वैतसच्चिदानन्दपरब्रह्मप्रत्यकूटस्थः परमात्मा तत्र या रतिः 'आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स खराट् भवति' इति श्रुतेः । 'यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च संतुष्ट. स्तस्य कार्य न विद्यते' इति स्मृतेश्च तृप्तपर्यायीभूता तदेकाकारवृत्तिरूपा जीव. न्मुक्तिरेव तदर्थे तल्लक्षणफलसिद्धये इत्यर्थः । सुदृशं सुष्ठ अप्रतिबद्धापरोक्षलक्षणा या दृक् विचारितसद्गुरूक्ततत्त्वमस्यादिमहावाक्यमात्रकरणकाद्वैतब्रह्मात्मैक्यविषयकदृश्यमिथ्यात्वपूर्वकचरमप्रमानामकब्रह्मविद्यारूपप्रमितिस्तामिति यावत् । एतत्प. दस्यावृत्त्यात्र योजनात्परोक्षापरोक्षविद्याद्वयमपि सकलशब्दब्रह्मसारस्याकलनमन्तरा नैव भवतीत्यावेद्यते । परं यावद्भेदवादिविदलनपूर्वकमेव यथा स्यात्तथा तद्वत्सुविस्तरं च संपूर्णप्रकरणाकरपूर्वकमपीत्यर्थः । अधिकारिणं शिष्यं प्रति संदिशति । अविद्यादि यावदृश्यबोधेनोपदिशतीति यावत् । पक्षे गुरुवृहस्पतिः । पक्षान्तरे गुरुः 'स्यानिषेकादिकृद्गुरुः' इत्यमरात्पितेत्यर्थः । सुदृगपि दृगुपलक्षितयावद्रूपगुणविशिष्टकन्यैव तामित्यर्थः । स्वेति । स्वकीयेन विवाहितनायकेन सह या मात्मनः निजव्यक्तेः रतिः सुरतसंभुक्तिस्तदर्थमित्यर्थः परं उत्कटम् । शब्देति । काचकङ्कणादिकमिति यावत् । करगं हस्तनिविष्टं कृत्वा सुविस्तरं यथा लोकशास्त्रविहितवस्त्रालंकारादिप्रदाननानाविधतुर्य घोषलक्षणनिरतिशयमङ्गलविस्तरपुरः. सरं यथा भवति तथैव यथोक्तवरं प्रति संदिशति यथाशास्त्रमेव ब्राह्मविवाहेन विनिवेदयतीत्यर्थः । तथैव परं जघन्यहानेनातिरम्यम् । शब्देति । निरुक्तानुप्रासादीत्येतत् । करगं हस्तदत्तमिव कृत्वा सुदृशं सकललौकिकरसमुख्यशृङ्गा. रालम्बनविभावीभूतां खकीयां नायिकामित्यर्थः । अतएव निर्भयत्वात् खात्मेतिच्छेदः । स्वस्य निजस्य आत्मा ब्रह्मानन्दो यथा भवति तथेयर्थः । रत्यर्थम् । सुविस्तरं परकीयादिहेययथाविधितदुपकरणाद्युपादेयप्राचुर्यपूर्वकं यथा स्यात्तथा। अत्र रत्ने संदिशामि चारुनिरूपयामीत्यन्वयः ॥ १ ॥ एवमुक्तरीत्योचाहि

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576