Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
[उत्तरार्धे
साहित्यसारम् । यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमांल्लोकान्न हन्ति न निबद्ध्यते ॥२०॥ ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ २१ ॥ इति स्मृतिपुराणादौ विरुद्धार्थेन संगतौ । अपेस्तद्भिन्न एव स्वविधेयार्थावबोधनम् ॥ २२॥ द्वितीये त्वविरुद्धार्थसंगतापेस्तु संभवः । स्याद्यथाश्रुत एवेह जलक्षिप्तदृषत्समः ॥२३॥ अपि वेदं पठेत्यादावपिर्युक्तपदार्थगः । अपिक्रीडार्भकेत्यादौ कामचारक्रियास्वपिः ॥ २४ ॥ तेन प्राक्तनपद्येऽपिः समुच्चय इति स्फुटम् ।
तव चिन्तामणेर्लाभो वराटयमवेक्षतः ॥ २५ ॥ पोत्सादनेन यागः कार्य एवेति नियमनमित्यर्थः । नास्ति किं अपित्वस्त्येवेति यावत् । तस्माद्युक्तमेवेदमपि शब्दार्थकथनं कथकानामित्यभिप्रायः ॥ १९ ॥ अत्र श्रीमद्भगवद्वाक्यं मार्कण्डेयपुराणवाक्यं च संवादयति-यस्येत्यादिद्वाभ्याम् ॥ २० ॥ ज्ञानिनामपीति । अत्र ज्ञानिशब्दः श्रीभगवद्गीतासु 'ज्ञानी खात्मैव मे मतम्' इत्यादिषु बहुधा ब्रह्मात्मैक्य विषयकसाक्षात्कारवत्येव प्रसिद्ध इति तत्संकोचेन परोक्षज्ञानिपरत्वेन नेतुमशक्य एवेत्युक्तैव गतिर्युक्तेत्याकूतम् ॥ २१ ॥ एवंच पूर्ववाक्ये तावदेकब्रह्मात्मैक्यसाक्षात्कारशालिकर्तृकतुल्यकालि. कसर्वजीवकर्मकवधक्रियाऽनुपपत्तेस्तद्विधानबोधनाऽसंभवः प्रकृतवाक्ये चापरोक्षज्ञानिनो ह्यबाधितमायावशेषस्यैवासंभवश्चेति तद्वाक्याद्यन्यथानुपपत्तिरपि प्रकृ. तोपयक्कैवेति निगमयति-इतीति । आदिनात्र 'ब्रह्मापि नरं न रञ्जयति' इति भर्तृहरिः । संगतौ सत्याम् । स्वेति । वघटितवाक्येत्यर्थः । सिद्ध मिति शेषः ॥ २२ ॥ एवं संभवाभिधस्य अपिशब्दार्थस्य पूर्वोक्तरीत्या द्विप्रकारत्वात्प्रथमप्रकारकार्थकथनानन्तरमवसरप्राप्तं द्वितीयं तत्प्रकारं प्रथयति-द्वितीये विति। पूर्ववैलक्षण्यार्थस्तुशब्दः । तत्र दृष्टान्तं स्पष्टयति-जलेति । जलक्षिप्तहषदः प्रतिरोधकाभावाद्यथा तदेकाभिघातकवं दृश्यते तद्वत्संसारोपि नकिंध्वंस्यो विचा रादित्यसौ तथेति प्रागुदाहृतेऽत्र प्रतिरोधाभावात्संभवाभिधं यथाश्रुतत्वमेवेति भावः ॥ २३ ॥ इत्थममरसंमतापिशब्दार्थपञ्चकं संप्रपञ्च्याथ तदधिकं मेदिनी. संमतमर्थद्वयमुदाहरति-अपिवेदमिति । हे अर्भक, त्वं क्रीडापि अनुपनीतत्वाद्यथेच्छं खेलनमपि संपादयेत्यन्वयः ॥ २४ ॥ एवं प्रासङ्गिकं समाप्य प्राकृतप्रश्नस्य समाधानमभिधत्ते-तेनेति । समुच्चये विषये । ननु किमितीदृक्प्रश्ने त्वयैतावानायासः कृत इत्यत आह-तवेति । निरुक्तभगवद्गीतादि. गतापिशब्दवारस्यलाभः सकलशास्त्राविरोधेन तव अपिशब्दार्थसामान्य विषयक

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576