Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
५३६
साहित्यसारम् ।
[उत्तरार्ध अपिः पदार्थसंभावनेत्यादेः पाणिनेर्गिरः । गर्दासमुच्चयप्रश्नशङ्कासंभावनास्वपिः ॥८॥ इति पञ्चामरस्येष्टा अपेरास्तथैवच । अपिः संभावनाप्रश्नशङ्कागर्हासमुच्चये ॥९॥ तथायुक्तपदार्थेषु कामचारक्रियासु च । इति युक्तपदार्थश्च कामचारक्रियापि च ॥ १० ॥ मेदिनीकृन्मतावर्षं पूर्वस्मादधिकावः। उदाहरणतः सप्ताप्येतान्स्पष्टं ब्रवीम्यहम् ॥ ११ ॥ परनारीमपि प्रेक्षीनरकं किं न यास्यसि । अत्र गएपिशब्दार्थः स्फुटोऽमरगिरेक्ष्यते ॥ १२॥ समुच्चयोऽतः संन्यस्य हरं हरिमपि स्मर । अपि किं मामकं रूपमिह प्रश्नोऽस्त्यपेस्तथा ॥ १३॥ अपि द्वैतं मृषास्तीदं सत्यमित्यत्र संशयः। मुक्तोपि संपतेत्सङ्गात्तरुण्या इह संभवः ॥१४॥ संसारोपि न किं ध्वंस्यो विचारादित्यसो तथा ।
तत्राद्येऽपिर्विरुद्धेन संबद्धोऽन्यावधारकः ॥ १५ ॥ अथैतदर्थप्रमाणान्युपन्यसति-अपिरित्यादिना । 'अपिः पदार्थसंभावनान्ववसर्गगर्दासमुच्चयेषु' इति तत्सूत्रम् । गिर इति पञ्चमी । पाणिनेर्वाग्वशादित्यर्थः । अथैतदेकमूलममरमपि संगृह्णाति-गर्हेत्यर्थेन ॥८॥ ततः किं तदाह-इतीति। तत्र मोदिनीमपि किंचिदाधिक्यात्संगृह्णाति-अपिरित्यादिना ॥ ९ ॥ तथेति । इतीति मेदिनीसमाप्यों निपातः । अथैतदुक्तार्थद्वयं किंपूर्वतोधिकं तत्राह-युक्तेत्यादिना ॥ १० ॥ मेदिनीति। ननु नैते स्पष्टीभवन्तीत्यत्राश्वासनं प्रतिजानीते-उदाहरणत इत्यर्धेन ॥ ११ ॥ अथ प्रतिज्ञातोदाहरणपू. र्वकमुक्तसप्तविधानप्यर्थान् क्रमेण विशदयति-परनारीमपीत्यादिना । रे देवदत्तेत्यार्थिकम् । अपरगिरेति । य उक्तोस्ति स इति शेषः॥ १२॥ समुश्चय इति । अतः यतस्त्वया परनारीक्षणं नरकावहं कृतमत इति संबन्धः । अपी. ति । अपेरर्थ इति शेषः ॥ १३॥ अपीति । द्वैतं दृश्यम् । मुक्कोपीति । संभवाख्यो ह्यप्यर्थः प्रकृते द्विविधः खविरुद्धखाविरुद्धसंबद्धत्वभेदात्तत्रायमाद्य इत्याशयः। ननु खविरुद्धसंबद्ध संभवत्वमेवासिद्धं नहि पदार्थत्वेन ह्रदे वह्निमत्त्वं संभवतीति चेन्न । संभवस्य तरुण्यां पुंयोगेन गर्भधारणादेरिव योग्यताया एव विवक्षितत्वात् । तत्रादृष्टादिलक्षणबलवत्प्रतिबन्धकसत्वे कार्याजननस्य प्रकृतेऽपि तुल्यत्वाचेति दिक् ॥ १४ ॥ ननु किमत्र मुक्तस्य सङ्गात् पतने प्रतिबन्धकमिति
१ अन्ववसर्ग: कामचारानुज्ञेतिसिद्धान्तकौमुदी ।

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576