Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
५३४
साहित्यसारम् ।
[ उत्तरार्धे
स
मतिः । भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे' इति विष्णुसहस्रनामफलश्रुतौ नञ्प्रतिरूपनका रघटितैकैकवचनान्त बहून्कर्तृनेकक्रियान्वितानुद्दिश्य बहुवचनान्ततदा ख्यातविधानं सुप्रसिद्धमेव । अत्रहि श्रीमद्भगवत्पादीयं भाष्यमिदं ' न क्रोधोन लोभो नाशुभेति अकारानुबन्धरहितेन नकारेण समस्तं पदत्रयम् । अक्रोधादयो भवन्ति मात्सर्य च न भवतीत्यर्थ इति । एवं दशमस्कन्धपूर्वोत्तरार्धयोरपि क्रमात् 'नेमं विरिञ्चो न भवो न श्रीरप्यङ्गसंश्रया । प्रसादं लेभिरे गोपी यत्तस्प्राप विमुक्तिदात्' इति । 'न प्रद्युम्नो नानिरुद्धो न राम्रो न च केशवः । शेकुर्यस्य परित्रातुं कोऽन्यस्तदवितेश्वरः' इतिच । नचात्र त्वदुदाहृतभाष्य एव अक्रोधादयो भवन्ति मात्सर्य च न भवतीत्युक्तत्योक्तस्थले तावदेत इत्यध्याहार एव तत्संमत इति वाच्यम् । तत्तात्पर्यस्य त्वयाद्याप्यज्ञातत्वात् । तथाहि तदाशयस्तु नच मात्सर्यमित्यत्र चकारेण व्यवधानान्न क्रोधो न लोभो नाशुभेत्यादिप्रयोग - येsपि अकारानुबन्धविधुरत्वान्नभिन्नेन नकारेणैव 'शैलवृक्षावगौ नगौ' इत्यमरोक्तर्नगादिवत्समस्तत्वमभिप्रेत्य अक्रोधादयो भवन्तीत्युक्तं परंतु तत्र तथा वक्तुमशक्यत्वादेकक्रियान्वयित्वेऽपि किंचिद्वैजात्यादगत्यैव मात्सर्यं च न भवतीत्येकवचनान्ताख्यातमध्याहृत्य भिन्न एवान्वयः कृत इति । नैतावतोक्तव्याप्तिभङ्गो भवति । अथ ‘नेमं विरिश्च' इत्यत्रतु विरिञ्चश्चतुराननाख्यः ना । ' स वै शरीरी प्रथमः वै पुरुष ईश्वरः । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत' इति स्मृतेः 'पुरुषाः पूरुषा नरः' इत्यमराच्च पुरुष इत्यर्थः । तथा न भवः न विद्यते भवः उत्पत्तिः संसारो वा यस्य स शिव इत्यर्थः । तथा अङ्गसंश्रयात्पत्नीत्वेनाङ्गसङ्गिन्येतादृक् श्रीरपीत्याद्यन्वये प्रतिबन्धकाभावादेकस्यामित्याद्युक्तनियमः सुघट एव । एवं 'न प्रद्युम्नो नानिरुद्धो न रामः' इति पदत्रये तु नग इत्यादिवदेव समासे प्रद्युम्न - त्वादिवीर्याभावादभिप्रेत्य यस्य परित्रातुं न शेकुस्तथा चकारेणाप्यर्थकेन केशवोऽपि यस्य परित्रातुं न शशाकेति निरुक्तभाष्यवदगत्यैवैकवत्वेनान्तविभक्तिविपरिणामं कृत्वा कोऽन्यस्तदवितेश्वर इति चरमचरणेनान्वयः कार्य इति तात्प र्यम् । यद्वा असौ प्रद्युम्नः न किंतु प्रद्युम्न एवेति काकुरेव त्रिष्वपि परंतु चोवधृतौ । यस्य परित्रातुं नैव शेकुः कोऽन्यस्तदवितेश्वर इति नत्रं विनापीदं तत् । पौरुषोदाहरणं तु कुवलयानन्दकारिकाकारैः श्रीमदप्पय्य दीक्षितैः समुच्चयालंकारात्मना प्रोक्तम् — 'अहं प्राथमिका भाजामेककार्यान्वयेऽपि सः । कुलं रूपं वयो विद्या धनं च मदयन्त्यमुम्' इति । इहाप्युक्तनियमः सरल एवेति संक्षेपः । एवमेवोपपादितं व्युत्पत्तिवादे गदाधरभट्टाचार्यैः - आख्यातद्विवचन बहुवचनयोस्तु संख्याबोधकत्वमावश्यकं चैत्रो मैत्रश्च गच्छतः । चैत्रो मैत्रो देवदत्तश्च गच्छन्तीत्यादौ । 'चन्द्रे कलङ्कः सुजने दरिद्रता विकासलक्ष्मीः कमलेषु चञ्चला । मुखाप्रसादः सधनेषु सर्वदा यशो विधातुः कथयन्ति खण्डितम्' इत्यादौ च द्विलबहुत्वबोधकसुपोऽभावात् । नच तत्र सुबेकवचनस्यैव द्वित्वबहुत्वादौ लक्षणाऽस्त्वि

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576