Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 549
________________ कामधेनुरत्नम् ९] सरसामोदव्याख्यासहितम् । ५३३ धकत्वाच्च । तथाचात्रायं प्रयोगः । एकवचनान्तपदवाच्यबहवः कर्तारः बहुवचनान्ताख्यातवन्तः एकफलोपधायकत्वलक्षणैकक्रियान्वयित्वात् द्रौपदीशवदिति । द्रौपद्यास्तावदीशेषु भर्तृषु धर्मभीमार्जुननकुलसहदेवेषु यथा एकक्रियान्वयिवं द्रौपदीसंभोगसंपादनलक्षणाद्वितीयव्यापारपरवं यतो वर्तते अतः धर्मः भीमः अर्जुनः नकुलः सहदेव इत्येकवचनान्तपदवाच्यबहुषु कर्तृषु विजहुरिति बहुवचनान्ताख्यातवत्त्वमपि वर्तत एवेति व्याप्तिग्रहः सुग्रह एव सूक्ष्मधियाम् । यदि ते एकवचनान्तपदवाच्या बहवः कर्तारो न बहुवचनान्ताख्यातवन्तः स्युस्तर्हि एकक्रियान्वयिनोऽपि न स्युरित्यायनुकूलतर्कसत्वानेदमसदनुमानम् । नचेदं विजहुरिति बहुवचनान्ताख्यातवत्त्वं पाण्डवेष्वेकवचनान्तपदवाच्येष्वेकक्रियान्वयित्वहेतुना कपोलकल्पितमिति सांप्रतम् । महाभारत एव दृष्टत्वात् । तथाचोकमादिपर्वणि द्रौपदीखयंवरे कण्ठत एव-'ततः समाधाय स वेदपारगो जुहाव मन्त्रैर्ध्वलितं हुताशनम् । युधिष्ठिरं चाप्युपनीय मन्त्रविनियोजयामास सहैव कृष्णया । प्रदक्षिणं तौ प्रगृहीतपाणी परीणयामास स वेदपारगः । ततोऽभ्यनुज्ञाय तमाजिशोभनं पुरोहितो राजगृहाद्विनिर्ययौ । क्रमेण चानेन नराधिपात्मजा वरस्त्रियास्ते जगृहुस्तदा करम्' । 'पतिश्वशुरता ज्येष्ठे पतिदेवरताऽनुजे। मध्यमेषु च पाञ्चल्यास्त्रितयं त्रितयं त्रिषु । कृते विवाहे तु ततस्तु पाण्डवाः प्रभूतरत्नामुपलभ्य तां श्रियम् । विजहुरिन्द्रप्रतिमा महाबलाः पुरे तु पाञ्चालनृपस्य तस्य ह' इति । अत्र युधिष्ठिरमित्यायेकवचनान्तपदवाच्यपक्षसारूप्यम् । विजहुरिति बहुवचनान्ताख्यातवत्वसाध्यसारूप्यम् । पाण्डवाः 'प्रभूतरत्नामुपलभ्य तां श्रियम्' इत्येकक्रियान्वयि हेतुसारूप्यमपि दृष्टान्ते स्पष्टमेव । तस्माद्युक्तमेवो. क्तानुमानादीति दिक् । ननु यदर्थमेतावानायुष्मतः प्रयासः कानि तान्यार्षमानु. षोदाहरणान्येवादाविति चेच्छृणु । 'न क्रोधो न च मात्सर्य न लोभो नाशुभा १ अयं श्लोकस्तु रत्नगर्भाख्यभारतटीकापाठे लिखितोपि तत्र नैव व्याख्यातश्चतुर्ध. रटीकापाठे तु नैव लिखितोपि लोके कालिदासं प्रति व्यासकाश्यां समस्यात्वेन प्रसिद्ध इति प्रक्षिप्त एघ ममावभाति । तथाहि । लोके ह्येवं किंवदन्ती शिष्टरैतिह्यत्वेनोच्यते'भोजनृपः काशीयात्रार्थ सकालिदास एव गतः स नायातः पुनः परावृत्तो व्यासकाशीदर्शनाय मार्गवशादेवायातस्तत्र तु व्यासप्रतिमा पाषाणमयी केनचित्स्थापिता सेति तां पृथूदरां करतः कालिदासः परामृशन् 'द्रोणं च भीष्मं च जयद्रथं च' इत्यादिप्रयोगकरणात् व्यासश्चकारकुक्षिरेवेति पिचण्डिल इति कवित्वगर्वायदोपजहास तदैव तद्धस्तस्तत्र संलग्नोऽभूत् । अनन्तरं तद्राव्यन्त्ययामे कश्चिद्राह्मणस्तमुपेत्य पप्रच्छ-किमिति त्वमत्र कोऽसीति' तदुत्तरं तद्वत्तं श्रुत्वा 'त्रितयं त्रितयं त्रिषु' इति समस्योक्ता । अथ कालिदासेन 'पतिश्वशुरता ज्येष्ठे पतिदेवरताऽनुजे । इतरेषु च पाचाल्या' इति त्रिपाद्या तत्पूरणे कृते तद्धस्तः सुनिर्मुक्तः सच ब्राह्मणोऽन्तर्हितोऽभूदिति । तदयं श्लोकः प्रक्षिप्त एवेति ध्येयं धीरैः सुधीभिरिति दिक् ।

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576