Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
५३२
[ उत्तरार्धे
साहित्यसारम् ।
एकस्यां चेत्क्रियायां स्युः कर्तारो बहवो यदि । नञाऽन्विता अपि प्रेष्ठं तत्तादृग्द्रौपदीशवत् ॥ ६ ॥
सर्वपक्षेषु प्राग्वदेवेति यावत् । एवंरीत्या गृही गृहस्थ इत्यर्थः । तथा पक्षे अक्षरेति प्राग्वदेव । वनी वानप्रस्थ इत्यर्थः । तन्नित्यादिकर्मणां गृहस्थतोऽविशेषात् । तथा । पक्षे अक्षरेति । अक्षरे अद्वैतब्रह्मणि त्रातकस्य समुदायात्मकस्य द्वैतस्य या अवृत्तिरविद्यमानत्वं तद्विषयको यो यमश्चित्तनियमनं वेदान्तश्रवणादिना ब्रह्मात्मैक्यविषयकं निदिध्यासनं तेन यत्कं सुखं तदित्यर्थः । यमकमिति क्रियाविशेषणं तूक्तार्थमेव । एवंप्रकारतः दण्डी एकदण्डी परमहंससंन्यासी चेति यावत् । साधयन्ति निरुक्तसुखानि संपादयन्ति तथा धयन्ति तद्रसानप्याखादयन्तीत्यन्वयः । तदुक्तं चन्द्रालोके - 'आवृत्तवर्णस्तबकं स्तबकन्दाङ्कुरं कवेः । कवेः कविसंबन्धिनः । स्तवेति । बवयोः सावर्ण्यात्स्तुतिरूपकन्दाङ्कुरं तत्पोषकारणमस्तीत्यर्थः । इदं हि वक्ष्यमाणयमकस्योदाहरणमपि माधुर्यमाधुर्येतिवत् । 'यमकं प्रथमाधुर्यमाधुर्यवचसो विदुः' इति । प्रथमाः प्राचीनाः कवय इत्यर्थः । शिष्टं तु स्पष्टार्थमेव । यथावा मदीयप्रियव्रतचरितचन्द्रिकायां 'सा कविता सा वनिता नैव यतः शक्यते दृगपनेतुम् ।' पुनः सेति । अर्धसमजातीयकं यमकमिदम् ॥ ५ ॥ नन्वेकवचनान्ते कर्तृपदे बहुवचनान्तमाख्यातमख्यातमेवेति चेन्न । आर्षपौरुषोदाहरणेषु तादृक्प्रयोगदर्शनान्यथानुपपत्त्या नियमविशेषस्यैव तत्र हेतुत्वादित्याशयं विशदयति - एकस्यां चेदिति । एकस्यां क्रियायां बहव एव कर्तारः अन्विताः स्युश्चेत् यदि वा नञाऽपि अन्विताः एकस्यां क्रियायां बहवः कर्तारः स्युस्तथापि तन्निरुक्तक्रियावाचकमाख्यातमित्यर्थः । तादृगेव बहुवचनान्तमेव । प्रेष्टं प्रकर्षलक्षणनैयत्येनैव विदामभिमतमस्तीत्यन्वयः । ननु किमत्र मानमित्याशक्य सर्वप्रमाणमूर्धन्यार्षादितादृक्प्रयोगसंदर्शनान्यथानुपपत्त्यनुग्राहकमनुमानं सूचयंस्तत्साधकं दृष्टान्तं स्पष्टयन्समाधत्ते - द्रौपदीशवदिति द्रौपद्या एव धर्मादिपञ्चभर्तृकता महाभारतप्रसिद्धैव तद्वदिति यावत् । अयं भावः । द्रौपदीपाणिग्रहणलक्षणा किया तावदेकैवेति निर्विवादमेव । परंतु तत्र कर्तारो धर्मराजादयः पश्ञ्चेति बहव एव आसन् तद्वत्ते तस्याः प्राथमिकसुरतसमारम्भकालावच्छेदेन लज्जातिरेकस्वाभाव्यात्तदुच्चारितनकार शक्य निषेध विषयतावच्छिन्ना अप्यभवन् । तेन तद्गर्भाधानं धर्मराजादिबहुकर्तृकमेव यथा लोके शास्त्रे च सुप्रसिद्धमेव । तद्वत्प्रकृते तावत्पूर्वपद्ये साधनादिरूपायामेकस्यामेव क्रियायां कव्यादयः पञ्चाप्यन्विताः प्रत्येकमेकवचनान्ता एत्र सन्ति तेन तत्र साधयन्तीत्यादि - बहुवचनान्तमाख्यातमत्युचितमेव विरचितमस्तीति । एवं वक्ष्यमाणार्षोदाहरणेषु तावदेकस्यामेव क्रियायां कर्तारः प्रत्येकमेकवचनान्तास्तथा नत्रा तत्पर्यायीभूतेन नकारेणापि प्रत्येकमन्विताः सन्ति तत्र बहुवचनान्तानि क्रियापदान्यपि समुचितान्येव । एकक्रियान्वयित्वस्य नकारान्वितत्वेपि तुल्यत्वात्तस्यैवोक्त नियमसा

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576