SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ५३२ [ उत्तरार्धे साहित्यसारम् । एकस्यां चेत्क्रियायां स्युः कर्तारो बहवो यदि । नञाऽन्विता अपि प्रेष्ठं तत्तादृग्द्रौपदीशवत् ॥ ६ ॥ सर्वपक्षेषु प्राग्वदेवेति यावत् । एवंरीत्या गृही गृहस्थ इत्यर्थः । तथा पक्षे अक्षरेति प्राग्वदेव । वनी वानप्रस्थ इत्यर्थः । तन्नित्यादिकर्मणां गृहस्थतोऽविशेषात् । तथा । पक्षे अक्षरेति । अक्षरे अद्वैतब्रह्मणि त्रातकस्य समुदायात्मकस्य द्वैतस्य या अवृत्तिरविद्यमानत्वं तद्विषयको यो यमश्चित्तनियमनं वेदान्तश्रवणादिना ब्रह्मात्मैक्यविषयकं निदिध्यासनं तेन यत्कं सुखं तदित्यर्थः । यमकमिति क्रियाविशेषणं तूक्तार्थमेव । एवंप्रकारतः दण्डी एकदण्डी परमहंससंन्यासी चेति यावत् । साधयन्ति निरुक्तसुखानि संपादयन्ति तथा धयन्ति तद्रसानप्याखादयन्तीत्यन्वयः । तदुक्तं चन्द्रालोके - 'आवृत्तवर्णस्तबकं स्तबकन्दाङ्कुरं कवेः । कवेः कविसंबन्धिनः । स्तवेति । बवयोः सावर्ण्यात्स्तुतिरूपकन्दाङ्कुरं तत्पोषकारणमस्तीत्यर्थः । इदं हि वक्ष्यमाणयमकस्योदाहरणमपि माधुर्यमाधुर्येतिवत् । 'यमकं प्रथमाधुर्यमाधुर्यवचसो विदुः' इति । प्रथमाः प्राचीनाः कवय इत्यर्थः । शिष्टं तु स्पष्टार्थमेव । यथावा मदीयप्रियव्रतचरितचन्द्रिकायां 'सा कविता सा वनिता नैव यतः शक्यते दृगपनेतुम् ।' पुनः सेति । अर्धसमजातीयकं यमकमिदम् ॥ ५ ॥ नन्वेकवचनान्ते कर्तृपदे बहुवचनान्तमाख्यातमख्यातमेवेति चेन्न । आर्षपौरुषोदाहरणेषु तादृक्प्रयोगदर्शनान्यथानुपपत्त्या नियमविशेषस्यैव तत्र हेतुत्वादित्याशयं विशदयति - एकस्यां चेदिति । एकस्यां क्रियायां बहव एव कर्तारः अन्विताः स्युश्चेत् यदि वा नञाऽपि अन्विताः एकस्यां क्रियायां बहवः कर्तारः स्युस्तथापि तन्निरुक्तक्रियावाचकमाख्यातमित्यर्थः । तादृगेव बहुवचनान्तमेव । प्रेष्टं प्रकर्षलक्षणनैयत्येनैव विदामभिमतमस्तीत्यन्वयः । ननु किमत्र मानमित्याशक्य सर्वप्रमाणमूर्धन्यार्षादितादृक्प्रयोगसंदर्शनान्यथानुपपत्त्यनुग्राहकमनुमानं सूचयंस्तत्साधकं दृष्टान्तं स्पष्टयन्समाधत्ते - द्रौपदीशवदिति द्रौपद्या एव धर्मादिपञ्चभर्तृकता महाभारतप्रसिद्धैव तद्वदिति यावत् । अयं भावः । द्रौपदीपाणिग्रहणलक्षणा किया तावदेकैवेति निर्विवादमेव । परंतु तत्र कर्तारो धर्मराजादयः पश्ञ्चेति बहव एव आसन् तद्वत्ते तस्याः प्राथमिकसुरतसमारम्भकालावच्छेदेन लज्जातिरेकस्वाभाव्यात्तदुच्चारितनकार शक्य निषेध विषयतावच्छिन्ना अप्यभवन् । तेन तद्गर्भाधानं धर्मराजादिबहुकर्तृकमेव यथा लोके शास्त्रे च सुप्रसिद्धमेव । तद्वत्प्रकृते तावत्पूर्वपद्ये साधनादिरूपायामेकस्यामेव क्रियायां कव्यादयः पञ्चाप्यन्विताः प्रत्येकमेकवचनान्ता एत्र सन्ति तेन तत्र साधयन्तीत्यादि - बहुवचनान्तमाख्यातमत्युचितमेव विरचितमस्तीति । एवं वक्ष्यमाणार्षोदाहरणेषु तावदेकस्यामेव क्रियायां कर्तारः प्रत्येकमेकवचनान्तास्तथा नत्रा तत्पर्यायीभूतेन नकारेणापि प्रत्येकमन्विताः सन्ति तत्र बहुवचनान्तानि क्रियापदान्यपि समुचितान्येव । एकक्रियान्वयित्वस्य नकारान्वितत्वेपि तुल्यत्वात्तस्यैवोक्त नियमसा
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy