SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ कामधेनुरत्नम् ९] सरसामोदव्याख्यासहितम् । अक्षरवातकावृत्तियमकं यमकं कविः। वर्णी गृही वनी दण्डी साधयन्ति धयन्ति च ॥५॥ अप्रतिबद्धा च मतिर्विचारितसद्गुरूपदिष्टखशाखोपनिषन्महावाक्वैककरणिका चरमप्रमा तस्या हेतुभूताया इति यावत् । एवं अलाटेत्यत्रापि च्छेदः । अं विष्णु 'अकारो वासुदेवः स्यात्' इत्यभिधानालात्यात्मत्वेनादत्त इत्यलस्तत्त्वावबोधस्तदर्थमटन्ति तत्तत्तीर्थक्षेत्रशास्त्रादिषु परिभ्रमन्तीति तथा तीव्रमुमुक्षवस्ताननुलक्ष्य प्रकर्षेण तदुद्धारमात्रधिया आसनमवस्थानमेवासः सकलसंप्राप्ताद्वैततत्त्वजिज्ञासूद्धारस्त्वत्प्रसादकाधीनोऽस्त्यतस्त्वं मानं विहाय सप्रसादं मामवलोकयेत्युत्तरार्धन संबन्धः । तदुक्तं काव्यप्रकाशे-'शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः' । शब्दार्थयोरभेदेऽप्यन्वयमात्रभेदाल्लाटजनवल्लभत्वाल्लाटानुप्रासः । उदाहरणम् 'यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य' इति । इदमेवाधसमजातीययमकस्याप्युदाहरणम् । परंतूभयत्रापि नकार उत्तरार्धे यस्य सविधे दयितास्ति तस्य तुहिनदीधितिर्न दवदहनो भवतीति योज्यः । साहित्यदर्पणेऽपि 'शब्दार्थयोः पौनरुक्त्यं भेदे तात्पर्यमात्रतः । लाटानुप्रासः' इत्युक्तः । उदाहरणम्-स्मे रराजीवनयने नयने किं निमीलिते । पश्य निर्जितकन्दर्प कन्दर्पवशगं प्रियम्' इति ॥ ४ ॥ एवमेव यमकमपि लक्षयति-अक्षरेति । अक्षराणां सखरव्यञ्जनानां यो व्रातः समूह एव वातकः वाक्यं तस्य या आवृत्तिरन्यूनानतिरिक्तत्वेन पुनरुक्तिर्यत्र तादृशं काव्यं यमकमेतत्संज्ञकं भवतीति लक्षण निदेशः। अथैतदुदाहरति-यमकमित्यादिना प्राग्वदेव । एतादृशं यमकं यमयति तदेकचिन्तनेनेन्द्रियाणि नियमयति तदितरविषयेभ्यो व्यावर्तयतीति यथा स्यात्तथेत्यर्थः । एवंप्रकारेण कविः काव्यकर्ता, पक्षे अक्षरेति । अक्षराणां 'अमिमीळे पुरोहितम्' इत्यादीनां 'इषेत्वोर्जत्वा' इत्यादीनां च वेदवर्णानां यो व्रातकः सकलखशाखा. लक्षणः सङ्घः तस्य या आवृत्तिः सर्वदा ब्रह्मयज्ञादौ यथाविधिपठणसंततिस्तया ये यमाः 'अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः' इति पातञ्जलसूत्रप्रसिद्धा हिंसादयो निवृत्तिधर्मास्तैर्यत्कं सुखं तदित्यर्थः । यमकं यमनमेव यमकं वेदाभ्या.. सजन्या हिंसादिनिवृत्तिधर्मपरिपाके तदितरविषयपारवश्यनिरसनपूर्वकं यथा भवति तथेति यावत् । ईदृक्प्रकारेण वर्णी ब्रह्मचारी । पक्षे अक्षरेति । 'अक्षरमम्बरान्तधृतेः' इति पारमर्षसूत्रात् । 'एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु' इत्यादिश्रुतेश्च अक्षरस्य अद्वैतब्रह्मण एव ये वाताः अस्मदाद्य. दृष्टया तत्र कल्पितजन्यजगदभिन्ननिमित्तकारणत्वप्रयोजकानादिभावरूपमूलज्ञानं तेन ये वाताः सूर्यादिदेवगणास्तेषां कं सुखं येभ्यस्ते तथा एतादृशः ये यावत्काम्यनिषिद्धवर्जनपूर्वकं यावन्नित्यनैमित्तिकप्रायश्चित्तानि तेषां या आवृत्तिः पौन:पुन्येन फलाभिसंधिकर्तृत्वाभिमानराहित्येन यदनुष्ठानं तेन ये यमाः अहिंसादयः प्रागुक्ता एव तैर्यत्कं सुखं तदित्यर्थः । एतादृशं यमकं यथा स्यात्तथेत्यायग्रे
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy