________________
५३०
साहित्यसारम् ।
वागर्थावृत्तिके लाटानुप्रासो भेदसंमतेः । बाले बालेन्दुभस्मेरे स्मेरेणाक्ष्णावलोकय ॥ ४॥
[ उत्तरार्धे
तीति योजना । अत्र तृतीयचरण एवोदाहरणम् । सर्वेषामपि तद्वर्णानां दन्त्यत्वात् । ऌतुलसानां दन्ता इति दन्तस्थानस्था एव तत्र सततं ललिताः सन्तीति वर्णाः स्पष्टा एव । अत्र अकुहविसर्जनीयानां कण्ठ इति खोदाहृतसुप्रसिद्धस्थानक्रमं विहाय तवर्गीयवर्णोदाहरणं तु दर्पणेष्टे तालुरदादिक इति माधुर्याधिक्यादेव । तदुक्तं साहित्यदर्पणे - ' उच्चार्यते यदेकत्र स्थाने तालुरदादिके । सादृश्यं व्यञ्जनस्यैतच्छ्रुत्यनुप्रास उच्यते' । उदाहरणम् -' दृशा दग्धं मनसिजं जीवयन्ति शैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः । अत्र जीवयन्ति जयिनीरिति । अत्रच जकारयकारयोरेकस्थाने तालाबुच्चार्यत्वात्सादृश्यम् । एवं दन्त्यकण्ठ्यानामप्युदाहार्यम् । एष सहृदयानामतीव श्रुतिसुखावहत्वाच्छ्रुत्त्यनुप्रास इति । पक्षे यदि द्विजादीति । आदिना शूद्रः । एतादृशाः वर्णाः प्रसिद्धा एव ब्राह्मणादयश्चत्वारः । स्थानेति गङ्गादिनदीप्रवाहागमनोर्ध्वोदगादिदिगर्वागाद्यनुक्रमनिवासस्थानोत्तमोत्तमोत्तममध्यमाधमत्वरूपसाम्येनेत्यर्थः । सततं ललिताः सन्ति तर्हि सः देशः । श्रुतीति । श्रुत्यनुसारेणैव प्रकर्षेणासनमवस्थानं यस्यैतादृगित्यर्थः
३ ॥ एवमेव लाटानुप्रासमपि मंमटभट्टादिसंमतं लक्षयति- वागर्थेति । वागर्थयोः सार्वोशिकसाम्येनावृत्तिः पौनः पुन्येन कथनं यस्मिन्काव्ये तत्रेत्यर्थः । भेदेति । अनन्वयभेदस्यैव संमतत्वेन हेतुनेति यावत् । लाटेति । लाटदेशीयजनमनोरञ्जकत्वात्तन्नामत एवासौ प्रचुरप्रसिद्धो भवतीति भावः । तमुदाहरति - बाल इत्याद्युत्तरार्धेनैव । बाल इति बालचन्द्रनिभः अवश्यदर्शनीयत्वात्सूक्ष्मत्वाच्च स्मेरो मन्दहासो यस्याः सा तथा तत्संबुद्धावित्यर्थः । स्मेरेण सुप्रसन्नेन । एकवचनं तु कटाक्षनिरीक्षणाभिप्रायकमेव । मां त्वत्प्राणेशमिति शेषः । तत्र प्रयोजनापेक्षायां तत्र पुनः पूर्वार्ध योजयति - वागित्यादिश्लेषेण । वाय र्थयोरिव यत्संमेलनं 'स भूरिति व्याहरत् । तेन भुवमसृजत ' इति । ' तस्माद्वा एतस्मा • दात्मन आकाशः सभूतः' इति च श्रुतेर्वाक्प्राधान्येनार्थ प्राधान्येन वा सृष्टिदर्शनाद्विपरीत सुपरीतान्यतरसुरतमित्यर्थः । तस्य या आवृत्तिः पौनःपुन्येनानुष्ठानं तेन कमैहिकं पारत्रिकं च सुखं यस्याः सकाशात्सा तथा तत्संबुद्धावित्यर्थः । तथाच तैत्तिरीयाः समामनन्ति' प्रजातिरमृतमानन्द इत्युपस्थः' इति । एवं च प्रजातिपदवाच्यपुत्रसंततिद्वारा पितृऋणमोचनतस्तत्प्रसादासादितचित्तशुद्धिद्वारक विवेकादिपरम्परया ज्ञानेनामृतमद्वैत कैवल्यमपि तथा 'सर्वेषामानन्दानामुपस्थ एकायतनम्' इति श्रुत्यन्तरादानन्दश्च त्वदेकायत्त इत्याशयः । एतेनास्यां खकीयात्वमेवारुन्धत्यादिवदिति ध्वनितम् । अन्यथोक्तश्रुत्युक्तफलसाकल्यासंभवात् । तस्माद्यत एतादृशी त्वं स्वीयैव भवस्यतः अभेदेति च्छेदः । अभेदस्य द्वैतमिथ्यात्वपूर्वकं ब्रह्मात्मैक्यविषयिणी या सम्यग्दृढा परोक्षत्वादिना अबाधिता