SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ ५२९ कामधेनुरत्नम् ९] सरसामोदव्याख्यासहितम् । सव्यञ्जनालिरेवात्र छेकानुप्रासशालिवाक् । कुन्दमन्दस्मिता राधा हरिं याति रतीक्षितम् ॥२॥ वर्णा द्विजादिजात्मानः स्थानसादृश्यतो यदि । सततं ललिताः सन्ति श्रुत्यनुप्रास एव सः॥३॥ पद्यादीति । 'सरणिः पद्धतिः पद्या' इत्यमरान्मजीरादिकम् । आदिना कङ्कणादि ॥१॥ तत्रादौ श्लेषेण च्छेकानुप्रासं लक्षयति-सेत्याद्यर्धेन । समानानि च तानि व्यञ्जनानि चेति तथा । अचः स्वराः स्वरहीनं व्यञ्जनमिति वचनात्खजातीयहलैकाक्षराणि तेषां या आलिः पतिर्द्धित्रादिसरणिः साच्कखल्पविजातीयव्यअनान्तरव्यवधाने सत्येव साच्कसजातीयव्यञ्जनराजिरेवेत्यर्थः । अत्र शब्दालंकारप्रकरणे । एवं लक्षणमभिधाय लक्ष्यमुद्दिशति-छेकेति । छेको विदग्ध इत्यभिधानाच्छेकानां विदग्धपदाभिधविबुधानां अनु रसायनुसारेण मधुररसेषु शृङ्गारादिषु । 'ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी । दधे कामपरिक्षामका. मिनीगण्डपाण्डुताम्' इति काव्यप्रकाशोदाहृतरीत्या मधुरवर्णमयी परुषेषु वीरादिषु परुषवर्णमयी । 'क्षत्रध्वान्तशरद्भावद्गर्वहृद्भाजदोजसा । कः संगरेऽर्भकः पार्थः शस्त्रं मध्वन्तकोद्दधे' इत्यादिमूलप्रागुदाहृता एतादृशी या प्रकर्षेण वर्णवि. न्यासोत्कर्षेण आसनमेवासः पदादिविन्यासस्तेनान्वर्थकसंज्ञा विशेषेण तन्त्रैकप्र. सिद्धेन शालते एतादृशी वाकाव्यविशेषगतशब्दालंकारवाणी भवतीत्यर्थः । तमु. दाहरति--कुन्देत्यायुत्तरार्धेन । न्कुदवत्परमारक्ताधरकान्तिसंकीर्णत्वादोन्मीलितबहिररुणकुन्दमुकुलदलवन्मन्दं शनैः स्मितं किंचिदेव हास्यं यस्याः सा तथेत्यर्थः । एतेन पद्मिनीस्वाभाव्यमिष्टलाभहृष्टत्वं च सूच्यते । एतादृशी राधारतीति । रत्यर्थमीक्षितं स्वयं प्रागवलोकितम् । अतएव रतये क्रीडार्थमीक्षितं राधां प्रत्यवलोकितं यस्य स तथा तमित्यर्थः । एवंच प्रकृते समानुरागकत्वं व्यज्यते । ईदृशं हरि यातीति संबन्धः । तत्र हेतुं द्योतयत्राधां विशिनष्टि-सेत्यादि. द्वाभ्याम् । सव्यञ्जनारतिसामग्रीयुक्ता आलि: सखी यस्याः, स्वयं तु छेकाश्चतुरास्ताननु प्रकर्षेण आसनशालिनी वाग्यस्याः सा । अत्र कुन्दमन्देति याति रतीक्षितमिति च च्छेकानुप्रास एव । वृत्त्यनुप्रासस्तु वृत्तीनां गुणरत्न एव सप्तमे प्रपञ्चितत्वेन तदनतिरिक्तत्वान्नेह प्रतन्यत इति दिक् ॥ २ ॥ एवं श्लेषेणैव दर्पणसंमतं श्रुत्यनुप्रासमपि लक्षयति-वर्णा इत्यादिश्लोकेनैवोदाहरति च । यदि वर्णाः साच्का हलः । द्विजेति। द्विजाः ‘दन्तविप्राण्डजा द्विजाः' इत्यभिधाना. हन्ताः । आदिना अकुहविसर्जनीयानां कण्ठ इत्यादिवचनात्कण्ठादिस्थानान्तरं बोध्यम् । तत्र जातः अभिव्यक्तः आत्मा स्वरूपं येषां ते तथा दन्तायुक्तसुप्रसिद्धतत्तत्स्थानजन्यस्वरूपा इत्यर्थः । स्थानेति । खस्थानकजन्यत्वरूपसौन्दर्यत्वलक्षणसाधयेणेति यावत् । सततं कविना पद्यादिनिबद्धत्वेन निरन्तरमित्यर्थः । ललितास्तत्रापि रसाद्यनुकूलत्वेन सुन्दराः सन्ति तर्हि सः श्रुत्यनुप्रास एव भव
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy