Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 551
________________ कामधेनुरत्नम् ९] सरसामोदव्याख्यासहितम् । ननु यत्पूर्वपद्येऽत्र प्रोक्तं तच्चार्वथापि यत् । नञाऽन्विता अपीत्युक्तं कोऽर्थोऽत्रापेरिहोच्यते ॥ ७ ॥ ५३५ तिवाच्यम् । आनुशासनिकातिरिक्तार्थे सुब्विभ केर्लक्षणाया अनभ्युपगमात् । अन्यथा चैत्रो मैत्रश्च गच्छत इत्यादाविव च्छन्दसि लक्षणयैव स्वादिना द्वित्वादिबोधनसंभवात् । औजसादिरूपादे शिस्मृतिद्वारा द्विविधबोधनिर्वाहाय च्छन्दसि 'सुपां सु:' इत्यादिसूत्रेण औजसा दिस्थाने खाद्यादेशस्य वैयर्थ्यात् । चैत्रादिपदोत्तरैकवचनस्य द्वित्वादिलाक्षणिकत्वे तदप्रकृत्यर्थ मैत्रादिसाधारणद्वित्वादिबोधे च उक्तव्युत्पत्ति विरोधेनानुपपत्तिश्च' इति । नन्वत्र भवदभिमतोंशस्तावदेकस्यां क्रियायामेकवचनान्ता बहवः कर्तारस्तात्पर्यतः समन्विता यत्र विवक्षिताः सन्ति तत्राख्यातं बहुवचनान्तमेव नियतमिति नतु तादृगार्षपौरुषप्रयोगस्थलेऽप्येतदादिपदाध्याहारोऽपीत्यत्र संमतित्वेन व्युत्पत्तिवादग्रन्थोऽयं समुदाहृतोऽस्त्याख्यातद्विवचनेत्यादिरुक्तव्युत्पत्तिविरोधेनानुपपत्तिश्चेत्यन्तस्तत्र किमागतमिति चेदाकलयैतत्तात्पर्यम् । आख्यातद्विवचन बहुवचनयोस्तु संख्याबोधकत्वमावश्यकमिति प्रतिज्ञाय चैत्रो मैत्रश्च गच्छतः । चैत्रो मैत्रो देवदत्तश्च गच्छन्तीत्यादाविति हेतुत्वेन वाक्यद्वयं स्वयं प्रयुक्तम् । तेन विभक्त्यर्थीभूतलडागच्छतः गच्छन्तीति च क्रमात् द्वित्वबहुत्वसंख्यावाचके एवाख्याते प्रयुक्ते न तु चैत्रो मैत्रश्च एतौ चैत्रो मैत्रो देवदत्तश्च एते गच्छन्तीत्येतच्छब्दादेः पूर्वपरामर्शकस्य अध्याहा - रोपि । तत्र प्राचां प्रयोगोऽपि तथा समुदाहारि चन्द्रे कलङ्क इत्यादिपद्यात्मकः । तस्मान्मदभिमतार्थतात्पर्यकत्वमेवोक्तग्रन्थस्येति सुधीभिरेवावधार्यम् । नच चैत्रो . मैत्रश्चैतौ गच्छतः । चैत्रो मैत्रो देवदत्तश्चैते गच्छन्तीत्यध्याहारेणैव निर्वाहे किं बाधकमिति वाच्यम् । गौरवात् । शब्दाध्याहारस्य चार्थाध्याहारस्य चावश्यकत्वादन्यथा शाब्दबोधस्यैवासंभवात् । एवमपि चैत्रो मैत्रश्चेत्यादिवाक्यश्रोतुः करणादिना समुद्बुद्धसंस्कारादेव विनैवाध्याहारं गच्छत इत्याद्येकक्रियान्वयित्वेन नियत एव शाब्दबोधः । उक्तगौरवमप्यङ्गीकुर्वाणं प्रत्यधस्तादेवोक्तं द्वितीयरले । 'घटं गुणं च संपाद्य वाप्याः पेयं जलं ततः । निर्वेधं निकटस्थाया गङ्गायाः को न वित्पिबेत्' इति ॥ ६ ॥ एवं विचित्रव्युत्पत्ति नियमश्रवणेनातिहृष्टः शिष्यः शास्त्राद्युक्तस्याव्ययत्वेन प्रसिद्धस्याप्यपिशब्दस्यार्थनिर्णय जिज्ञासुः शङ्कते - नन्विति । यदित्यादिचार्वन्तं सप्रसादं समाधानकथनार्थमेव प्राक्तनग्रन्थाभिनन्दनं अथापीत्याद्युक्तमित्यन्तं निगदव्याख्यातमेव । अत्र अपेः अपिशब्दस्य कोऽर्थः इत्येतत्पर्यन्तमेव प्रश्नपरो ग्रन्थः । अत्र सानुवादमाचार्यः प्रतिजानीते । इहेत्यादि - शेषेण । उक्तप्रश्ने विषय इत्यर्थः । उच्यते समाधीयत इति यावत् ॥ ७ ॥ ·

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576