Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
५२९
कामधेनुरत्नम् ९] सरसामोदव्याख्यासहितम् ।
सव्यञ्जनालिरेवात्र छेकानुप्रासशालिवाक् । कुन्दमन्दस्मिता राधा हरिं याति रतीक्षितम् ॥२॥ वर्णा द्विजादिजात्मानः स्थानसादृश्यतो यदि ।
सततं ललिताः सन्ति श्रुत्यनुप्रास एव सः॥३॥ पद्यादीति । 'सरणिः पद्धतिः पद्या' इत्यमरान्मजीरादिकम् । आदिना कङ्कणादि ॥१॥ तत्रादौ श्लेषेण च्छेकानुप्रासं लक्षयति-सेत्याद्यर्धेन । समानानि च तानि व्यञ्जनानि चेति तथा । अचः स्वराः स्वरहीनं व्यञ्जनमिति वचनात्खजातीयहलैकाक्षराणि तेषां या आलिः पतिर्द्धित्रादिसरणिः साच्कखल्पविजातीयव्यअनान्तरव्यवधाने सत्येव साच्कसजातीयव्यञ्जनराजिरेवेत्यर्थः । अत्र शब्दालंकारप्रकरणे । एवं लक्षणमभिधाय लक्ष्यमुद्दिशति-छेकेति । छेको विदग्ध इत्यभिधानाच्छेकानां विदग्धपदाभिधविबुधानां अनु रसायनुसारेण मधुररसेषु शृङ्गारादिषु । 'ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी । दधे कामपरिक्षामका. मिनीगण्डपाण्डुताम्' इति काव्यप्रकाशोदाहृतरीत्या मधुरवर्णमयी परुषेषु वीरादिषु परुषवर्णमयी । 'क्षत्रध्वान्तशरद्भावद्गर्वहृद्भाजदोजसा । कः संगरेऽर्भकः पार्थः शस्त्रं मध्वन्तकोद्दधे' इत्यादिमूलप्रागुदाहृता एतादृशी या प्रकर्षेण वर्णवि. न्यासोत्कर्षेण आसनमेवासः पदादिविन्यासस्तेनान्वर्थकसंज्ञा विशेषेण तन्त्रैकप्र. सिद्धेन शालते एतादृशी वाकाव्यविशेषगतशब्दालंकारवाणी भवतीत्यर्थः । तमु. दाहरति--कुन्देत्यायुत्तरार्धेन । न्कुदवत्परमारक्ताधरकान्तिसंकीर्णत्वादोन्मीलितबहिररुणकुन्दमुकुलदलवन्मन्दं शनैः स्मितं किंचिदेव हास्यं यस्याः सा तथेत्यर्थः । एतेन पद्मिनीस्वाभाव्यमिष्टलाभहृष्टत्वं च सूच्यते । एतादृशी राधारतीति । रत्यर्थमीक्षितं स्वयं प्रागवलोकितम् । अतएव रतये क्रीडार्थमीक्षितं राधां प्रत्यवलोकितं यस्य स तथा तमित्यर्थः । एवंच प्रकृते समानुरागकत्वं व्यज्यते । ईदृशं हरि यातीति संबन्धः । तत्र हेतुं द्योतयत्राधां विशिनष्टि-सेत्यादि. द्वाभ्याम् । सव्यञ्जनारतिसामग्रीयुक्ता आलि: सखी यस्याः, स्वयं तु छेकाश्चतुरास्ताननु प्रकर्षेण आसनशालिनी वाग्यस्याः सा । अत्र कुन्दमन्देति याति रतीक्षितमिति च च्छेकानुप्रास एव । वृत्त्यनुप्रासस्तु वृत्तीनां गुणरत्न एव सप्तमे प्रपञ्चितत्वेन तदनतिरिक्तत्वान्नेह प्रतन्यत इति दिक् ॥ २ ॥ एवं श्लेषेणैव दर्पणसंमतं श्रुत्यनुप्रासमपि लक्षयति-वर्णा इत्यादिश्लोकेनैवोदाहरति च । यदि वर्णाः साच्का हलः । द्विजेति। द्विजाः ‘दन्तविप्राण्डजा द्विजाः' इत्यभिधाना. हन्ताः । आदिना अकुहविसर्जनीयानां कण्ठ इत्यादिवचनात्कण्ठादिस्थानान्तरं बोध्यम् । तत्र जातः अभिव्यक्तः आत्मा स्वरूपं येषां ते तथा दन्तायुक्तसुप्रसिद्धतत्तत्स्थानजन्यस्वरूपा इत्यर्थः । स्थानेति । खस्थानकजन्यत्वरूपसौन्दर्यत्वलक्षणसाधयेणेति यावत् । सततं कविना पद्यादिनिबद्धत्वेन निरन्तरमित्यर्थः । ललितास्तत्रापि रसाद्यनुकूलत्वेन सुन्दराः सन्ति तर्हि सः श्रुत्यनुप्रास एव भव

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576