Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 544
________________ -५२८ साहित्यसारम्। [ उत्तरार्धे स्वभावोक्तिनिरुक्तिश्च प्रतिषेधो विधिस्तथा। संभावनं च च्छेकोक्तिर्भाविकं च वितर्ककः ॥ ३२४ ॥ अनुकूलं तथा प्रत्यक्षादिमानाष्टकं तथा। संसृष्टिः संकरश्चैवमलंकारशतं मतम् ॥ ३२५॥ गोक्षीराब्धेः शिवगुरुविबुधसहायोऽच्युतः समुद्दभ्रे । अर्थालंकारवपुः कौस्तुभनामाष्टमं रत्नम् ॥ ३२६॥ इति श्रीसाहित्यसारे कौस्तुभाख्यमष्टमरत्नं संपूर्णम् ॥ ८॥ ___ कामधेनुरत्नम् ९ अर्थालंकारतोऽथाहं शब्दालंकारसंचयम् । जघन्यं प्रविहायैव पद्याद्यर्ह दिशामि तम् ॥१॥ ॥ ३२३ ॥ स्वभावोक्तिरिति ॥ ३२४ ॥ अनुकूलमिति । प्रत्यक्षादीति । आदिनानुमानोपमानशब्दार्थापत्त्यनुपलब्धिसंभवैतित्यग्रहः । मतं प्राचीनाद्याचार्यस्खारस्यानुसारिणो मम संमतमित्यर्थः ॥ ३२५ ॥ गोक्षीरेति । पूर्वार्धमिदं प्रागेव व्याख्यातम् । अथैति । अर्थालंकारनिरूपणस्वरूपमित्यर्थः । कौस्तुभेति । कौस्तुभ इति नाम यस्य तत्तथेत्यर्थः ॥ ३२६ ॥ इति श्रीमत० कौस्तुभाख्याष्टमार्थालंकाररत्नसरसामोदोल्लासः संपूर्णः ॥८॥ एवमष्टमरत्नेऽर्थालंकारान्त्संप्रपञ्च्य तेन प्रथमरत्नोक्तचतुर्विधकाव्यमध्ये तृतीयं मध्यमं तदुपपाद्याधुनाऽवसरप्राप्तं अधर्म काव्यभेद निरूपयिष्यन्नवमं शब्दालं. काररत्नमारभमाणः प्राक्तनरत्र्नेन सहास्यावसरसांगत्यं समभिदधानः श्लेषेणा. धमकाव्यप्रपञ्चरूपत्वेनैतस्मादुद्विजतः शिष्यादीन्सारतः संक्षेपकथनप्रतिज्ञया स. माश्वासयति-अर्थालंकारत इति । अहं प्रकृतग्रन्थलेखकत्वोपहितश्चिन्मात्र इत्यर्थः। अथेति । प्राचीनरत्ने अर्थालंकारनिरूपणात् । अथ अनन्तरम् । शब्देति । ननु यमकादेः खड्गबन्धादेश्च तत्र केवलं बालैकलालनोपयोगित्वेन प्रेक्षावदनादरणीयखमेवेत्यत आह-जघन्यामित्यादि नृतीयपादेन । तत्र जघन्यत्वेनातिनिन्द्यत्वादेव तद्धाने प्रकर्षाऽनवधारणं च प्रेत्यादिनी ध्वन्यते । एवं तर्हि किं तदधमेऽपि काव्यप्रपञ्चेऽत्र प्रेक्षावदादरणीयमवशिष्यतेत्यत्राह-पद्ये. त्याधन्त्यपादेन । आदिना गद्यम् । तं प्राक्प्रतिज्ञातशब्दालंकारसंचयमिति या. वत् । दिशामि कथयामीत्यन्वयः । पक्षे अहं खधर्मपत्न्युपभोगलालसः । अर्थेति । धर्माख्यपुमर्थैककृन्नासाभरणमङ्गलसूत्राद्यलंकारधारणादित्यर्थः । अथाव्यवहितम् । शब्देति । खनजनकाभरणनिकरमित्यर्थः । जघन्यं जघनार्ह काश्याख्यं जघनैकोपयुक्तमिति यावत् । तस्य शिष्टाचारविरोधात्तद्धाने प्रकर्षादि 150171FKatha PVITMAP

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576