Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 542
________________ ५२६ साहित्यसारम् । [ उत्तरार्धे आरम्भ उपमाचत्वारिंशाधिकशतं भिर्दा । अनन्वयेश्वोपमेयोपमाऽन्योन्योपमा तथा ॥ ३०९॥ असमचोदाहरणं प्रतीपं पञ्चधामतम् । रूपकं संमतं विद्यामितं परिणतिस्तथा ॥ ३१०॥ नेन नरसिंहन्यायेन पृथगलंकारत्वस्थितौ तनिर्णयः क्रियते । तत्र तिलतण्डुलन्यायेन स्फुटावगम्यमानभेदालंकारमेलने संसृष्टिः क्षीरनीरन्यायेनास्फुटभेदालंकारमेलने सं. कर इति कुवलयानन्दोक्तां संसृष्टिं निरूप्य संकरमपि तदुक्तं लक्षयति-क्षीरेति। सः प्रागुक्तः संघः। तमुदाहरति–हरिरिति। अत्र हरिशब्दे हरत्यद्वैतात्मप्रबोधजनकवेदान्तमहावाक्यविचारोपदेशेन मूलाविद्यामिति व्युत्पत्त्या संसारतिमिरेत्यादिविशेषणाद्धरिशब्दस्य ‘यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु' इत्याद्य. मरात्सूर्यवाचकवादपि तद्रूपः सद्गुरुरिति रूपकं तथा विष्णुवाचकत्वाच्च श्लेषश्चैवं मयूरव्यंसकादिसमासाश्रयणेन तिमिरमिति रूपकं संसारस्तिमिरमिवेति लुप्तोपमा च न स्फुटीभवतीति लक्षणसंगतिः । यथावा कण्ठाभरणे—'क्षीरक्षालितचन्द्रेव नीलीधौताम्बरेव च । टङ्कोल्लिखितसूर्येव वसन्तश्रीरदृश्यत' । अत्रोपमोत्प्रेक्षे क्षीरनीरवन्मिश्रे इति। 'कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी । याति विश्वसनीयत्वं कस्य ते कलभाषिणि' । अत्र पांसूदकयोरिव मृत्पिण्डे श्लेषविरोधयोरव्यक्तयोरेव व्याजस्तुतावङ्गभावोऽवगम्यत इति च । यथावा साहित्यदर्पणे'अनुरागवती संध्या दिवसस्तत्पुरःसरः । अहो दैवगतिश्चित्रा तथापि न समागमः' । अत्र समासोक्तिविशेषोक्तेरङ्गमिति । यथावा कुवलयानन्दे-'संकरं प्रकृत्य स चाङ्गाङ्गिभावेन समप्राधान्येन संदेहेनैकवाचकानुप्रवेशेन च चतुर्विध इति । प्रतिज्ञाय अङ्गाङ्गिभावसंकरो यथा-'तलेष्ववेपन्त महीरुहाणां छायास्तदा मारु. तकम्पितानाम् । शशाङ्कसिंहेन तमोगजानां लूनाकृतीनामिव गात्रखण्डाः' । अत्र विस्तरस्तु समुदाहृतकण्ठाभरणादिग्रन्थत्रयेऽयनुसंधेयः प्रकृतानुपयोगानेह मया सं-:गृहीतोऽसाविति शिवम् ॥ ३०८ ॥ एवमित्थं शतमलंकारा इत्यादिकुवलयान. न्दीयान्तिमकारिकोक्तरीत्या शतसंख्याकानेव खकृतप्रियव्रतचरितचन्द्रिकान्तिमभागोक्तब्रह्मशरीरद्वैधीभावोत्पन्नार्धनारीश्वरतादात्म्यानुसंधानजन्यदक्षिणवामोभय. भागक्रमोत्पन्नमनुशतरूपात्मकमिथुनसंभूतप्रियव्रताख्यज्येष्ठपुत्रतज्ज्येष्ठपत्नीबहिर्मत्यभिधदम्पत्योः प्राथमिकसुरतकालिकसंवादोक्तशतालंकारानुपमादिसंकरान्तानिरूप्य ताननुक्रामति-आरम्भ इत्यादिसप्तदशश्लोकैः । संख्यादिसुबोधार्थमन्यप्रक्षेपनिराकरणाथै च । आरम्भे प्रथममित्यर्थः । भिदा तद्भेदेन । अनन्वयश्वे. ति। अनन्वयादीनां नैव भेद इत्यर्थः। अन्योन्योपमेति च्छेदः । चशब्दतथाशब्दौ समुच्चायकावेव । एवमेवाग्रेऽपि सर्वत्र द्रष्टव्यम् ॥ ३०९ ॥ असमश्चेति। विद्येति । 'पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश' इति स्मृतेश्चतुर्दशसंख्याभेदभिन्नमित्यर्थः ॥ ३१०॥

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576