Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 540
________________ ५२४ साहित्यसारम् । [ उत्तरार्धे उपवीतसमं हारं प्रातर्वीक्ष्य मृगीदृशः। विपरीतरतं सख्यो विनिर्णेयुः स्वचेतसि ॥ ३०३॥ असत्वं यत्पदार्थानां सोऽभावोऽनुपलब्धिकः । प्रिये मध्यस्तवास्त्येव परं नैवोपलभ्यते ॥३०४ ॥ प्रमाणान्तरतो बाधो योग्यतैवात्र संभवः। कृपाधीश कृपास्मासु पातित्यादेव भाविनी ॥ ३०५॥ लोके शास्त्रे च अर्थापत्तिरेतन्नामकप्रमाणव्यतिरेकप्रकृतेऽलंकारत्वेनाप्युदिता कथि. तास्तीत्यन्वयः । तदुक्कं सरस्वतीकण्ठाभरणे-'प्रत्यक्षादिप्रतीतोऽर्थो यस्तथा नोपपद्यते । अर्थान्तरं च गमयत्यर्थापत्तिं वदन्ति ताम्' इति ॥ ३०२ ॥ तामु. दाहरति-उपवीतेति । यज्ञोपवीतसमानसंस्थानमित्यर्थः । दक्षिणं बाहुं मध्यतः समुद्धत्य वामस्कन्धेऽवस्थापितमिति यावत् । एतादृशं मृगीदृशः पार्वत्याः हारं मुक्तावलिविशेषम् । 'हारो मुक्तावली' इत्यमरः । प्रातरुषसि वीक्ष्य आलोक्य सख्यः रहःसहचर्यः वचेतसि विपरीतरतं । पुरुषायितमित्यर्थः । मृगीदृश इत्यार्थिकम् । विनिर्णेयुरिति योजना। अय भावः । सा तावनिशि भगवता शिवेन सह विपरीतसुरतं कुर्वाणा पुंस्त्ववेषार्थ यज्ञोपवीतस्थाने स्वमुक्ताहारमेव तादृशं निवेशयामास । स तु ताहक्सुरतश्रान्तिविस्मृत्या तथैव निद्रायामप्यासीदतः सखीभिः प्रभाते तथेक्षितः प्रोक्तसुरतगमकोऽभूदिति । यथावा कण्ठाभरण एव–'निर्गतुं शक्यमस्तीति मध्यं तव नितम्बिनि । अन्यथानुपपत्त्यैव पयोधरभरस्थितेः' इति । विस्तरस्तु तत्रैव द्रष्टव्यः । यथावा मदीये कृष्णलीलामृते-'समुद्र एषोऽस्य सपत्नसुन्दरीस्रवट्टगब्जाम्बुभिरेव निर्मितः । नचेत्कथं क्षार उदाररंहसा प्रपूरितो. ऽप्यस्य नखेन्दुजाम्भसा' इति । यथावाऽस्मदीयायामेवाद्वैतामृतमञ्जर्याम्-'व. ल्मीकान्मुनिमिषतः किमनन्तः प्रादुरास यदि नेदम् । तद्वाक्यललितकण्ठः को वा नाभूच्छिवः साक्षात्' इति ॥ ३०३॥ एवं क्रमप्राप्तमभावापराभिधमनुपलब्ध्याख्यं षष्ठं प्रमाणमप्यलंकारत्वेन लक्षयति-असत्वमित्यर्धेनैव । यत्पदार्थानामसवं समीहितस्थलेऽविद्यमानत्वं सः अभाव एव । अनुपलब्धिकः अनुपलब्ध्यपराभिधोऽलंकारो भवतीत्यन्वयः। तमुदाहरति-प्रिये इति । इदं तु निग. दव्याख्यातमेव । यथावा कण्ठाभरण एव–'मानुषीषु कथं वा स्यादस्य रूपस्य संभवः । न प्रभातरलं ज्योतिरुदेति वसुधातले' इति । यथावा कुवलयानन्दे । अनुपलब्धिर्यथा-'स्फुटमसदवलनं तन्वि निश्चिन्वते ते तदनुपलभमाना रूपयन्तोऽपि लोकाः । कुचगिरिवरयुग्मं यद्विनाधारमेतत्तदिह मकरकेतोरिन्द्रजालं प्रतीमः' इति ॥ ३०४ ॥ एवं क्रमागतं संभवाख्यमपि सप्तमं प्रमाणमलंकारत्वेन लक्षयति-प्रमाणान्तरत इत्यर्धेनैव । अन्यप्रमाणेनेत्यर्थः । अबाधः बाधाभावः । एतद्रूपायोग्यतैवात्र लोके शास्त्रे च संभव एतदभिधोऽलंकारोऽस्तीति संबन्धः । तमुदाहरति-कृपाब्धीति । यथावा कुवलयानन्दे-'ये नाम के.

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576