Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
कौस्तुभरत्नम् ]
C
सरसामोदव्याख्यासहितम् ।
धीः संज्ञासंज्ञिसंबन्धे यतस्तदुपमानकम् । भगणं शकटाकारं बाले त्वं विद्धि रोहिणीम् ॥ ३०० ॥ यथार्थवक्तृवचनं शब्द इत्यभिधीयते । राधे कृष्णः परात्मायं लीलाकृदिति निश्चिनु ॥ प्रत्यक्षादिप्रसिद्धोऽपि योऽर्थो नैवोपपद्यते । अर्थान्तरं दिशत्येषा त्वर्थापत्तिरिहोदिता ॥ ३०२ ॥
३०९ ॥
५२३
॥ २९९ ॥ एवं क्रमप्राप्तमुपमानप्रमाणालंकारं लक्षयति- धीरिति । यतः सकाशात् । संज्ञेत्यादि । संज्ञा गवयादिपदशक्यता, संज्ञी गवयादिपदवाच्यो गवादिसदृशः पिण्डविशेषः । अनयोर्यः संबन्धः वाच्यवाचकभावरूपः संसर्गस्तस्मि न्विषय इत्यर्थः । धीः प्रमा भवति तत् निरुक्तप्रमाकरणं गवयादिपिण्डमात्रप्रत्यक्षोत्तरकालिकं गोसदृशो गवय इत्यतिदेशवाक्यस्मृतिरूपं करणमिति यावत् । उपमानकमस्तीति संबन्धः । एतेनोपमालंकारस्य व्यावृत्तिः सूचिता लक्षणफलादिभेदादिति बोध्यम् । तमुदाहरति - भगणमिति । हे बाले, त्वम् । शकटेति । शकटसदृशसंस्थानविशेषमित्यर्थः । एतादृशं भगणं नक्षत्रसंघम् । रोहिणीं विद्धीति योजना । तदुक्तं कण्ठाभरणकुवलयानन्दयोः । 'तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले । समूहस्तारकाणां यः शकटाकारकाश्रितः' इति । 'यस्तन्वि तारकान्यासः' इति कुवलयानन्दपाठः । आलेख्यनामकचित्रस्य पादादिचिह्नरूपाया मुद्राया आदर्शादिप्रतिबिम्बस्य चात्रैवान्तर्भावः । उक्तज्ञानजनकत्व तौल्यादिति दिक् ॥ ३०० ॥ इदानीं क्रमप्राप्तं शब्दप्रमाणमलंकारत्वेन लक्षयति-यथार्थ - ति । तदुदाहरति-राध इति । यथावा सरस्वतीकण्ठाभरणे - ' दमं दानं दयां शिक्षेः स्तनयित्नुर्वेदत्यसौ । ददद्द इति वाग्देवी दयध्वं दत्त दाम्यत' तदेतद्विधिरूपमाप्तवचनम् । निषेधरूपं यथा-' - "निवार्यतामालि किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः । न केवलं यो महतोपभाषते शृणोति तस्मादपि यः स पापभाकू' इति । यथावा कुवलयानन्दे - ' विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् । यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्य प्रभवो भविष्यति' | 'बलात्कुरुत पापानि सन्तु तान्यकृतानि वः । सर्वान्बलवताऽनर्थानकृतान्मनुरब्रवीत्' । 'महाजनाचारपरम्परेहशी खनाम नामाददते न साधवः । अतोऽभिधातुं न तदुत्सहे पुनर्जनः किलाचारमुचं विगायति' । 'असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणस्य वृत्तयः' इति ॥ ३०१ ॥ अथ क्रमप्राप्तमर्थापत्तिमप्यलंकारत्वेन लक्षयति- प्रत्यक्षादीति श्लोकेनैव । आदिनानुमानादिः । यः सर्वदिवसाभुजानत्वे सति पीनत्वादिलक्षणोऽर्थः प्रत्यक्षादिप्रसिद्धोऽपि देवदत्ताश्रितत्वेन प्रत्यक्षादिप्रमाणसिद्धोऽपि नैव उपपद्यते युक्तिसहो नैव भवति । अतः स्त्रोपपत्तयेऽर्थान्तरं रात्रिभोजनलक्षणं पदार्थान्तरं दिशति ज्ञापयति । एषा तु इहं

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576