SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ] C सरसामोदव्याख्यासहितम् । धीः संज्ञासंज्ञिसंबन्धे यतस्तदुपमानकम् । भगणं शकटाकारं बाले त्वं विद्धि रोहिणीम् ॥ ३०० ॥ यथार्थवक्तृवचनं शब्द इत्यभिधीयते । राधे कृष्णः परात्मायं लीलाकृदिति निश्चिनु ॥ प्रत्यक्षादिप्रसिद्धोऽपि योऽर्थो नैवोपपद्यते । अर्थान्तरं दिशत्येषा त्वर्थापत्तिरिहोदिता ॥ ३०२ ॥ ३०९ ॥ ५२३ ॥ २९९ ॥ एवं क्रमप्राप्तमुपमानप्रमाणालंकारं लक्षयति- धीरिति । यतः सकाशात् । संज्ञेत्यादि । संज्ञा गवयादिपदशक्यता, संज्ञी गवयादिपदवाच्यो गवादिसदृशः पिण्डविशेषः । अनयोर्यः संबन्धः वाच्यवाचकभावरूपः संसर्गस्तस्मि न्विषय इत्यर्थः । धीः प्रमा भवति तत् निरुक्तप्रमाकरणं गवयादिपिण्डमात्रप्रत्यक्षोत्तरकालिकं गोसदृशो गवय इत्यतिदेशवाक्यस्मृतिरूपं करणमिति यावत् । उपमानकमस्तीति संबन्धः । एतेनोपमालंकारस्य व्यावृत्तिः सूचिता लक्षणफलादिभेदादिति बोध्यम् । तमुदाहरति - भगणमिति । हे बाले, त्वम् । शकटेति । शकटसदृशसंस्थानविशेषमित्यर्थः । एतादृशं भगणं नक्षत्रसंघम् । रोहिणीं विद्धीति योजना । तदुक्तं कण्ठाभरणकुवलयानन्दयोः । 'तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले । समूहस्तारकाणां यः शकटाकारकाश्रितः' इति । 'यस्तन्वि तारकान्यासः' इति कुवलयानन्दपाठः । आलेख्यनामकचित्रस्य पादादिचिह्नरूपाया मुद्राया आदर्शादिप्रतिबिम्बस्य चात्रैवान्तर्भावः । उक्तज्ञानजनकत्व तौल्यादिति दिक् ॥ ३०० ॥ इदानीं क्रमप्राप्तं शब्दप्रमाणमलंकारत्वेन लक्षयति-यथार्थ - ति । तदुदाहरति-राध इति । यथावा सरस्वतीकण्ठाभरणे - ' दमं दानं दयां शिक्षेः स्तनयित्नुर्वेदत्यसौ । ददद्द इति वाग्देवी दयध्वं दत्त दाम्यत' तदेतद्विधिरूपमाप्तवचनम् । निषेधरूपं यथा-' - "निवार्यतामालि किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः । न केवलं यो महतोपभाषते शृणोति तस्मादपि यः स पापभाकू' इति । यथावा कुवलयानन्दे - ' विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् । यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्य प्रभवो भविष्यति' | 'बलात्कुरुत पापानि सन्तु तान्यकृतानि वः । सर्वान्बलवताऽनर्थानकृतान्मनुरब्रवीत्' । 'महाजनाचारपरम्परेहशी खनाम नामाददते न साधवः । अतोऽभिधातुं न तदुत्सहे पुनर्जनः किलाचारमुचं विगायति' । 'असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणस्य वृत्तयः' इति ॥ ३०१ ॥ अथ क्रमप्राप्तमर्थापत्तिमप्यलंकारत्वेन लक्षयति- प्रत्यक्षादीति श्लोकेनैव । आदिनानुमानादिः । यः सर्वदिवसाभुजानत्वे सति पीनत्वादिलक्षणोऽर्थः प्रत्यक्षादिप्रसिद्धोऽपि देवदत्ताश्रितत्वेन प्रत्यक्षादिप्रमाणसिद्धोऽपि नैव उपपद्यते युक्तिसहो नैव भवति । अतः स्त्रोपपत्तयेऽर्थान्तरं रात्रिभोजनलक्षणं पदार्थान्तरं दिशति ज्ञापयति । एषा तु इहं
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy