SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ उत्तरार्धे व्याप्येन व्यापके धीकृदनुमानमिहोच्यते । अनुरक्तेयमस्मासु स्मितपूर्वकटाक्षतः ॥ २९९ ॥ दधत्या । वीक्ष्यते स्म शनकैनववध्वा कामिनो मुखमधोमुखयैव' । अमिथ्यात्मकं यथा-'मनः प्रत्यक्चित्वे सविधमवधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः। यदालोक्याबादं हद इव निमज्ज्यामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान्' इतिच । यथावा कुवलयानन्दे-'किं तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते युवत्याः । संशय्य क्षणमिति निश्चिकाय कश्चिद्विम्बोकैर्बकसहवासिनां परोक्षैः' इति ॥ २९८ ॥ एवं क्रमप्राप्तमनुमानालंकारमपि तदुपजीव्यत्वात्तदुत्तरं लक्षयति-व्याप्येनेति । व्याप्येन लिङ्गेन । व्यापके साध्ये एतादृशे इह काव्यव्यापारगोचरार्थविषय इत्यर्थः । धीति । प्रमितिजनकमित्यर्थः । अनुमानं अनुमानालंकरणम् । उच्यत इत्यन्वयः । तमुदाहरतिअनुरक्तेति । इदं हि भगवतः श्रीकृष्णस्य कांचित्ताहगाशयसूचिकां गोपिका विलोक्य वमनस्येव वसुहृदं प्रति वा वचः । अत्र पुरोवर्तित्वेन प्रत्यक्षगोपिकापक्षः । तदाश्रितः खविषयकानुरागः साध्यः । मन्दहासापाङ्गवीक्षणं तत्कर्तृकं स्वकर्मकं हेतुः। अर्थसमाजसिद्धतादृग्गोप्यन्तरं दृष्टान्त इत्यूह्यम् । इहोक्तरूपेण व्याप्येन हेतुना गव्यव्यापारगोचरनिरुक्तगोपीविशेषपक्षकखविषयकानुरक्तत्वरूपसाध्य विषयकप्रमा भवतीति लक्षणसंगतिः । तदुक्तं रसगङ्गाधरे-काव्यव्यापारगोचरानुमितिकरणमनुमानम् । काव्यलिङ्गवारणाय गोचरान्तमिति । एवं च 'हिमाद्रिं त्वद्यशो मनं सुराः शीतेन जानते । लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च' इति कुवलयानन्दोदाहृतयोः भेदवैशिष्टययोः स्फूर्तावुन्मीलितविशेषको' इति तल्लक्षितोन्मीलितविशेषकयोः प्रागुक्तोऽत्रान्तर्भावः सुघट एव । उभयत्रापि क्रमात् शैत्यप्रमालिङ्गकहिमाद्रिप्रमारूपायाः कमलप्रतियोगिकरभणीमुखानुयोगिकभेदविषयकानुमितिरूपप्रमितेः सर्वदा विकसमानत्वहेतुकायाश्चोक्तकाव्यव्यापारगोचरानुमानैकसाध्यत्वादिति ध्येयम् । यथावा सरस्वतीकण्ठाभरणे-'अविरलविलोलजलदः कुटजार्जुननीपवनवातः । अयमायातः कालो हन्त हताः पथिक गेहिन्यः' । 'सावज्ञमागमिष्यन्नूनं पतितोऽसि पादयोस्तस्याः । कथमन्यथा ललाटे यावकरसतिलकपतिरियम्'इतिच । यथावा कुवलयानन्दे-'यथा रन्धं व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा शक्रमणयः। यथा विद्युज्ज्वालोल्लसितपरिपिङ्गाश्च ककुभस्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः' । यथावा-'यत्रैता लहरी चलाचलदृशो व्यापारयन्ति ध्रुवं तत्तत्रैव पतन्ति संततममी मर्मस्पृशोमार्गणाः । तच्चक्रीकृतचापपुहितशरः प्रेतत्करः क्रोधनो धावत्यग्रत एव शासन. धरः सत्यं तदासां स्मरः' । पूर्व रूपकसंकीर्णमिदमतिशयोक्तिसंकीर्णमिति भेदः । शुद्धानुमानं यथा-'निलीयमानैर्विहगैनिमीलद्भिश्च पङ्कजैः । विकसन्त्या च मा. लत्या गतः संज्ञायते रविः' । यथावा-'सौमित्रे ननु सेव्यतां तरुतलम्' इत्यादि
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy