________________
कौस्तुभरत्नम् ]
सरसामोदव्याख्यासहितम् ।
५२१
व्याप्यारोपाद्वितर्कः स्याद्यापकारोपणं यदि । यदीयं नानुरक्ता स्यात्तन्न पश्येत्कटाक्षतः ॥ २९६॥ प्रातिकल्येऽपि चेदिष्ठमनुकूलमुदीर्यते । अपराधी प्रियः पात्योऽधस्त्वयैतदुरःस्थया ॥ २९७ ॥ बाह्यान्तःकरणोत्पन्नं ज्ञानं प्रत्यक्षमिष्यते ।
संनिकर्षे प्रियास्येन शक्तप्यत्यन्यदा मनः ॥ २९८॥ इति । यथावा कुवलयानन्दे-'भाविकं भूतभाव्यर्थसाक्षात्कारस्य वर्णनम् । अहं विलोकयेऽद्यापि युध्यन्तेऽत्र सुरासुराः' । 'अद्यापि तिष्ठति दृशोरिदमुत्तरीयं धतुं पुनः स्तनतटाद्गलितं प्रवृत्ता। वाचं निशम्य नयनं नयनं ममेति किंचित्तदा यदकरोस्मितमायताक्षी' इति ॥ २९५ ॥ एवंच यत्र यत्र भूताद्यर्थविषयकसाक्षात्कारखोक्तिस्तत्र भाविकत्वमिति । भाविकनिरूपणे व्याप्तिप्रसकं वितर्कालंकारं लक्ष. यति-व्याप्येति । यद्ययं निर्वह्निः स्यात्तदा निधूमोऽपि स्यात् । तमुदाहरतियदीयमिति । यथावा सरखतीकण्ठाभरणे वितर्कभेदान् प्रकृत्य । तेषु निर्णयान्तस्तत्वानुपाती यथा-'मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपतनाद्भीतो महेन्द्रादपि । तायः सोऽपि समं निजेन विभुना जानाति मां रावणं आः ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति' इत्यादि । विस्तरस्तु तत्रैव ज्ञेयः ॥ २९६ ॥ एवं वितर्कसिद्धव्याप्तिप्रसक्तमनुकूलालंकरणं लक्षयति-प्रांतिकूल्यपीति । तदुदाहरति-अपराधीति । इयं हि ना. यिकां प्रति सख्युक्तिः । यथावा साहित्यदर्पणे-'अनुकूलं प्रातिकूल्यमानुकूल्यानुबन्धि चेत्' । यथा 'कुपितासि यदा तन्वि विधाय करजक्षतम् । बधान भुजपाशाभ्यां कण्ठमस्य दृढं तदा' इति । यथावा अमरुकशतके–'कोपात्कोमललो. लबाहुलतिकापाशेन बध्वा दृढं नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः। भूयोऽप्येवमिति स्खलन्मृदुगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निहुतिपरः प्रेयात्रुदत्या हसन्' इति । अत्र वाक्यार्थविस्तरस्तु मदीये शारदोदयाख्यैतटिपणग्रन्थ एव द्रष्टव्यः ॥ २९७ ॥ एवमनुकूलालंकारलक्षणकुक्षिनिक्षिप्तप्रातिकूल्यबाधकेष्टज्ञानस्य प्रमात्वेनैव लक्षणघटकतया प्रसक्तान्यलंकाराणां पुराणादि. ध्वपि दृष्टत्वात्पौराणिकसंमतान्यष्टौ प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्धिसं. भवैतिह्याख्यप्रमाणान्यप्यलंकारत्वेन दिदर्शयिषुः प्रथमं प्रत्यक्षालंकारं लक्षयतिबाह्येति । इष्यतेऽलंकारत्वेन प्राचीनैनवीनैश्चालंकारिकैः खीक्रियत इत्यर्थः । क्रमात्तमुदाहरति-संनिकर्ष इति । अन्यदा विप्रकर्षे । एवंच संनिकर्षे सति प्रियास्यविषयकं चाक्षुषं प्रत्यक्षं तदभावे तत्संस्कारतः स्मृत्या ध्यानेन वा ३ मनसस्तदाकारत्वलक्षण मानसं प्रत्यक्षं भवतीत्यस्य विलक्षणचमत्कारजनकत्वादुक्कालंकारत्वमिति लक्षणसंगतिः । तदुक्तं सरखतीकण्ठाभरणे–'प्रत्यक्षमक्ष ज्ञानं मानसं चाभिधीयते' इति । यथा-'मन्दमन्दविगलनपमीषचक्षुरुल्लसितपक्षम