________________
साहित्यसारम् ।
[ उत्तरार्धे
भूताद्यर्थस्य या साक्षात्त्वेनोक्तिर्भाविकं तु तत् । अद्यापि सा मे हग्बद्धा कामितानुमतीङ्गिता ॥ २९५ ॥ दाहरणसंसृष्टौ मिथ्याध्यवसितेः प्रौढोक्तौ दोषस्याभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात् । 'विपदः सन्तु नः शश्वद्यासु संकीर्त्यते हरिः' इत्यनुज्ञायाः 'कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे । हृदि स्नेहक्षयो नाभूत्स्मरदीपे ज्वलत्यपि इति विशेषोक्तौ । 'सूच्यार्थ - सूचनं मुद्रा प्रकृतार्थपरैः पदैः । नितम्बगुर्वी तरुणी हग्युग्मविपुला च सा' इति मुद्रायाः 'अलंकारः परिकरः साभिप्राये विशेषणे ! सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः' इति परिकरे - 'पूर्वावस्थानुवृत्तिश्च विकृते सति वस्तुनि । दीपे निर्वापितेऽप्यासीत्काश्वीर नैर्महन्महः' इति पूर्वावस्थायाः 'पुनः स्वगुणसंप्राप्तिः पूर्वरूपमुदाहृतम् । हरकण्ठानुलिप्तोऽपि शेषस्त्वद्यशसा सितः' इति पूर्वरूपे । ' क्रमिकं प्रकृतार्थानां न्यासं रत्नावलीं विदुः । चतुरास्यः पतिर्लक्ष्म्याः सर्वज्ञस्त्वं महीपते' इति रत्नावल्याः ‘प्रश्नाक्षरोत्तराभिन्नमुत्तरं चित्रमुच्यते । केदारपोषणरताः के खेटाः किं चलं वयः' इति चित्रस्य चाग्रिमे वक्ष्यमाणे शब्दालंकाररले तदलंकार विशेषयोः । तथा 'भेदवैशिष्टययोः स्फूर्तावुन्मीलित विशेषकौ । हिमाद्रिं त्वद्यशो मनं सुराः शीतेन जानते' । 'लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च' इति चोन्मीलित विशेष • कयोः काव्यलिङ्गे वक्ष्यमाणेऽनुमानालंकारे वा - -" विवृतोक्तिः श्लिष्टगुप्तं कविनाविष्कृतं यदि । वृषापेहि परक्षेत्रादिति वक्ति ससूचनम्' इति विवृतोक्तेः 'गूढोक्तिरन्योद्देश्या गीर्यदन्यं प्रति कथ्यते । वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षक: " इति गूढोत्तौ 'उदात्तमृद्धिसहितं श्लाघ्यं चान्योपसर्जनम् । सानौ यस्याभवद्युद्धं तद्धूजे र्जटिकिरीटिनो:' । ' रत्नस्तम्भेषु संक्रान्तप्रतिबिम्बशतैर्वृतः । ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वत:' इत्युदात्तस्य 'हेतोर्हेतुमता सार्धं वर्णनं हेतुरुच्यते । असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम्' इत्यादिहेत्वलंकारस्याग्रिमस्य काव्यलिङ्गे तद्वत 'अत्युक्तिरद्भुतातथ्यशौयौदार्यादिवर्णनम् । त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः' । 'राजन्सप्ताप्यकूपारास्त्वत्प्रतापाग्निशोषिताः । त्वद्वैरिराजवनिताबाष्पपूरेण पूरिताः' इत्युक्तेरपि 'अनयोरनवद्याङ्गि स्तनयोर्जुम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे' इत्यादिवदतिशयोक्तिविशेष एवान्तर्भाव इति ध्येयम् । धीरैः क्षन्तव्यं च मदपराधजातम् ॥ २९४ ॥ एवं च्छेकोक्तेरभिप्रायघटितत्वेन तादृक्तया प्रसक्तं भाविकालंकरणं लक्षयति-भूतादीति । आदिशब्देन भविष्य - तोऽप्यर्थस्य संग्रहः । प्रसिद्धं चैतद्भागवतेऽक्रूरानन्दवर्णने । तदुदाहरति — अद्या पीति । सा पूर्वानुभूता प्रिया । दृगिति । दृशि दृष्टौ बद्धेव बद्धा संबद्धा प्रत्य क्षेत्यर्थः । तत्र हेतुं वदंस्तां विशिनष्टि- कामितेति । मे इत्यत्राप्यनुकृष्ट योज्यम् । कामितस्य मत्प्रार्थितस्य अनुमतिरनुमोदनं यत्र तादृशमिङ्गितं सकटा क्षमन्दस्मितग्रीवाभिवलनं यस्याः सा तथेत्यर्थः । यथावा काव्यप्रकाशे — 'आसी दञ्जनमत्रेति पश्यामि तव लोचने । भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम्
--
I
५२०