________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
५१९ सबीजो लोकवादश्च यत्र च्छेकोक्तिरेव सा।
वायुति यथा पृष्ठं तथा कार्य तदुन्मुखम् ॥ २९४ ॥ संभवाद्गुणानामगण्यत्वमेवेति भावः । तदुक्तं कुवलयानन्दे-'संभावनं यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये । यदि शेषो भवेद्वक्ता कथिताः स्युर्गुणास्तव' । यथावा-'कस्तूरिकामृगाणामण्डाद्गन्धगुणमखिलमादाय । यदि पुनरहं विधिः स्यां खलजिह्वायां निवेशयिष्यामि' इति ॥ २९३ ॥ एवं संभावनालंकरणस्य व्याप्तिमूलकत्वप्रसक्तां. छेकोक्तिं लक्षयति-सबीज इति । यत्र लोकवादः लोकप्रवादोऽपि । चोऽप्यर्थे । सबीजः साभिप्रायः किंचिदर्थान्तरपर्यवसायी सा छेकोक्तिरेवालंकृतिर्भवतीत्यन्वयः । तामुदाहरति-वायुरिति । इयं हि लोको. क्तिरेव । तथाप्यत्र श्रीकृष्णः सुरभिसंफुल्लवृन्दावनीयमधुमालतीकुझे चन्द्रिकायां मां ज्योत्स्नाभिसारिकात्वेन ससंकेतमाकारितवांस्तदा त्वहमपि रहःप्रियसखि तदाज्ञाभङ्गभियाङ्गीकृतवत्येवासमर्थापि निशि मया खगृहात्पतित्यागसर्वजनवञ्चनपूर्वकमतिगूढं तत्राभिसर्तुं कथं पार्येतेति खसंकटपरिहारपरिपित्सुं राधिका प्रति सखीवाक्यमेव पुंलिङ्गादिनाध्यवसीयते । एवंच वायुस्थानीयोत्रभगवान् श्रीकृष्ण एवासङ्गत्वात्प्रबलतमत्वाच । स यथा वाति 'वा गतिगन्धनयोः' इति स्मर. णाद्यया रीत्यान्तःप्रसादपूर्वकं तुभ्यं सौगन्ध्यजननोपलक्षितं सुरतं ददाति तथैव त्वया पृष्ठं कामशास्त्रप्रसिद्धपाशुकरतिबन्धे यथाश्रुतमेव । कायस्य सरलसुरतकालेपि पृष्ठैकाधारत्वात्तदुपलक्षितं वपुस्तदुन्मुखं सर्वात्मना तदनुकूलमेव कार्यमिति तात्पर्यानुसारी संबन्धः। यथाश्रुते तु यथा वायुति तथा तदुन्मुखं पृष्ठमिति सरलैव योजना । एवंच यथाप्रसङ्गः पतति तथैव वर्तितव्यमिति नीति?त्यते। एतावानायासस्तु सख्याः सर्वजनप्रतारणपूर्वकं राधामुपदेष्टुमेव । यथावा कुवलयानन्दे–'छेकोक्तिर्यत्र लोकोक्तेः स्यादर्थान्तरगर्भता । भुजंग एव जानीते भुजंगचरणं सखे' । यथा-'मलयमरुतां व्राता याता वि. कासितमल्लिकाः परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि । घन घटयितुं तं निःस्नेहं य एव निवर्तने प्रभवति गवां किं नश्छिन्नं स एव धनंजयः' । अत्र धनलिप्सया प्रोषिताङ्गनासखीवचने य एव गवां निवर्तने प्रभवति स एव धनं. जय इत्यादिप्रसिद्धलोकवादानुकारोऽत्रातिसौन्दर्यशालिनीमिमामपहाय धनलिप्सया प्रस्थितो रसानभिज्ञत्वाद्गोप्राय एव, तस्य निवर्तकस्तु धनस्य जेता धनेनाकृष्टस्य तद्विमुखीकरणेन प्रत्याकर्षकत्वादित्यर्थान्तरमेव गर्भीकृतमिति । नन्वतन्मूलीभूता 'लोकप्रवादानुकृतिर्लोकोक्तिरिति भण्यते । सहख कतिचिन्मासान्मीलयित्वा विलो. चने' इति कुवलयानन्द एवोकालोकोतिरत्र प्राकुतो नोक्तेति चेच्छृणु । निरुक्तच्छेकोक्त्या सहैकीकृत्य मदुदाहृतरीत्याऽत्रैव तदन्तर्भावस्य लाघवेनेष्टत्वात् । एवमेवैतत् प्राक्तनानां कुवलयानन्दोक्तानां आवृत्तिदीपकमालादीपककारकदीपकाना दीपकभेदविशेषाणां तत्रैवान्तर्भावस्तथा तदुक्तस्य विकखरस्य चार्थान्तरन्यासो.