________________
५१८
साहित्यसारम् ।
[ उत्तरार्धे
प्रतिषेधोऽनुवादो यः साभिप्रायो निषेधगः। नेयं प्रहसनप्रौढी किंतु पाण्डित्यमण्डना ॥ २९१ ॥ यत्सिद्धस्य विधानं तद्विद्ध्यलंकृतिमूचिरे। प्राप्ते तु षोडशे वर्षे सुन्दरी सुन्दरी भवेत् ॥ २९२॥ यदीत्थं तत्तदैवैवमूहः संभावनं मतम्।
सहुरो त्वगुणागण्यास्त्वमेव यदि वर्णयः ॥ २९३॥ . यथावा कुवलयानन्दे-'निरुक्तिोगतो नाम्नामन्यार्थत्वप्रकल्पनम् । ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान्' । 'पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठित- ' कालिदासा । अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव' इति । यथावा मदीये कृष्णलीलामृते-'वसूनि रत्नानि ववर्ष देवकी महाऽकरेऽतो वसुदेव उच्यते । यदत्र कृष्णाभिधमात्मवस्त्वपि प्रजज्ञिवद्दिव्यमहेन्द्रनीलरुक्' इति ॥ २९० ॥ एवं निरुक्तौ प्रसिद्धनामार्थनिषेधात्प्रसक्तं निषेधालंकारं लक्षयतिप्रतिषेध इति । निषेधगः निषेधविषयकज्ञानजनक इत्येतत् । तमुदाहरतिनेयमिति । यथावा कुवलयानन्दे-'प्रतिषेधः प्रसिद्धस्य निषेधस्यानुकीर्तनम् । न द्यूतमेतत्कितव क्रीडनं निशितैः शरैः' इति । युद्धरङ्गे प्रत्यवतिष्ठमानं श. कुनि प्रति विदग्धवचनमुपहाससूचकमित्याशयः ॥ २९१ ॥ एवं प्रतिषेधालंका. रलक्षणान्तर्गतानुवादलक्षणसिद्धबोधनप्रसक्तां विध्यलंकृतिमपि लक्षयति-यदि. ति । ऊचिरे आहुः । पूर्वाचार्या इत्यार्थिकम् । तामुदाहरति-प्राप्तेत्विति । अत्र यद्यपि घटे घटत्वविधानवत्सुन्दयाँ सुन्दरीत्व विधानानुपपत्तर्द्वितीयसुन्दरीशब्दोऽनुपयुक्तएव तथाप्यसौ स्वार्थबोधनप्रतिबन्धादर्थान्तरसंक्रमितवाच्यत्वेऽपि लोको. त्तरसौन्दर्यशालिखलक्षणव्यङ्गयार्थस्य च 'प्राप्ते तु षोडशे वर्षे' इत्यादिना कण्ठत एव स्फुटीकृतत्वेन ध्वनिखानहत्वाचालौकिकसौन्दर्यशालिवपर्यवसाय्येवेति भावः। तेनात्र व्यङ्गयादिभिन्नत्वेन चमत्कृतिजनकत्वादलंकृतित्वमक्षतमेवेति बोध्यम् । - तदुक्तं कुवलयानन्दे-'सिद्धस्यैव विधानं यत्तामाहुर्विध्यलंकृतिम् । पञ्चमोदञ्चने काले कोकिलः कोकिलो भवेत्' । यथा—'हे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । रामस्य गात्रमसि निर्भरगर्भखिन्नसीताप्रवासनपटोः करुणा कुतस्ते'। अत्र रामस्य खहस्तं प्रति रामस्य गात्रमसीति वचनमनुपयुकं सद्रामस्येत्यनेन खस्यात्यन्तं निष्करुणत्वं गर्भीकरोति । तच्च निर्भरेत्यादिविशेषणेनाविष्कृतम् । अधिकं तु तत्रैव बोध्यम् ॥ २९२ ॥ एवं विध्यलंकृतिनिरुक्तिप्रसक्तं विध्यलंकृतिलक्षणनिविष्टस्य यदि षोडशवर्षे प्राप्तं स्याचेत्तदैव सुन्दरीसुन्दरी स्यादिति व्याप्तिनियमस्य प्रसङ्गतः संगतं संभावनालंकरणं लक्षयतियदीत्थमिति । यदीत्थं भवेत्तर्हि तदैव तत्स्यादेवं ऊहस्तर्कः संभावनमलंकरणं मतं प्राचामाचार्याणां संमतं भवतीति संबन्धः । तदुदाहरति-सहुरो इति । एवंच सद्गुरोरमानित्वादिस्खाभाव्येन स्वमुखतः स्वगुणवर्णनप्रवृत्तेः कालत्रयेऽप्य