________________
कौस्तुभरत्नम् ८ ]
सरसामोदव्याख्यासहितम् ।
जात्यादिगस्वभावस्य वाक्स्वभावोक्तिरुच्यते । पारावतो रुतं कुर्वन्रिरंसति निजप्रियाम् ॥ २८९ ॥ निरुक्तियगवृत्यैव नाम्नोऽर्थान्तरकल्पनम् । अनाथव्यथकत्वेन युक्तं शशधरो भवान् ॥ २९० ॥
५१७
अत्र इयं मत्सखी यतः मुग्धवधूः अतः उदन्तमात्रं 'वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात्' इत्यमराद्वृत्तान्तमात्रं जानाति । इदन्तत्वेन वास्तविकार्थत्वेन न जानातीति योजनार्थश्लेषपक्षे । शब्दश्लेषपक्षे तु विधौ चन्द्रे अभ्युदिते सति पुनरेष्यामि इति उदन्तमात्रं उत् उकारः । तपरकरणं हि तत्र व्याकरणे प्रसिद्धम् । तत् शब्दरूपं अन्ते यस्य विधुशब्दस्य तावन्मात्रं जानाति । नतु इदन्तत्वेन इत् इकारः अन्ते यस्य विधिशब्दस्य तत्वेन तव दैवे अभ्युदिते सत्येव पुनरेष्यामीति त्वद्विवक्षितार्थत्वेन नैव जानातीति । तस्माद्वाला । अतएव सरलेयं मत्सख्येवं नैव त्वया वचनीयेति भाव इति । यथावा मदीयाद्वैतामृतमञ्जर्याम् - 'सरसमपि सादि सान्तं तव तारुण्यं कथं कृतं विधिना । यद्यत्सद्वयमेतत्तथेति सुदृशां तु सिद्धान्तः ' इति । अत्र पूर्वार्धः श्रीकृष्णप्रश्नो राधां प्रति । उत्तरार्धस्तु तदुत्तरमेव सादिजन्यम् सान्तं तत एव क्षयित्वेन तर्कितम् । पक्षे सः सकारः सद्वयं कुचद्वयाविर्भावसहितम् । पक्षे द्वैतसहितम् । पक्षान्तरे सकारयुगवत् तथा सादि सान्तं चेति तु सुदृशां मादृशां मृगीदृशां, पक्षे भवादृशां सदसद्विचारस्पृशामित्यर्थः । शिष्टं तु स्पष्टमेव । एवं चात्रोदाहरणद्वयेऽपि श्लेषवक्रोक्तिः स्पष्टैव ॥ २८८ ॥ एवं चक्रोत्यलंकृतिनिरूपणे 'वाचा किंच सुधा समुद्रलहरीलावण्यमामन्त्र्य' इति रसमञ्जर्युक्तरीत्या तस्यास्तरुणी स्वाभाव्यप्रसक्तां स्वभावोक्तिं लक्षयति- जात्यादिगेति । वाक् वर्णनघटितवाणीत्यर्थः । तामुदाहरति - पारावत इति । 'पारावतः कलरवः' इत्यमरात्प्रसिद्धएव । रुतं 'तिरश्चां वाशितं रुतम्' इत्यमराच्छब्दविशेषमित्यर्थः। कुर्वन्सन्नेव निजप्रियां रिरंसतीच्छापूर्त्यवधि रतिं कर्तुमिच्छतीत्यन्वयः । यथावा साहित्यदर्पणे-‘लाङ्गूलेनाभिहत्य क्षितितलमसकृद्दारयन्नग्रपद्भ्यामात्मन्येवाचलीय द्रुतमथ गगनं प्रोत्पतन्विक्रमेण । स्फूर्जद्धूत्कारघोरः प्रतिदिशमखिलान्द्रावयन्नेष जन्तून्कोपाविष्टः प्रविष्टः प्रतिबलमनलोद्दीप्तचक्षुर्मृगेन्द्रः' इति । यथावा कुवलयानन्दे—'स्वभावोक्तिः : स्वभावस्य जात्यादिस्थस्य वर्णनम् । कुरङ्गैरुत्तरङ्गाक्षैः स्तब्धकर्णैरुदीक्षितम् ' । यथा - ' तौ संमुखप्रचलितौ सविधे गुरूणां मार्गप्रदानरभात्स्खलितावधानौ । पार्श्वपसर्पणमुखावपि भिन्नादिकं कृत्वा मुहुर्मुहुरुपासरतां सलज्जम्' इति ॥ २८९ ॥ एवं स्वभावोक्तिप्रसङ्गेन शब्दस्यापि योगवृत्त्या कचिदर्थान्तरबोधकत्वखाभाव्यात्प्राप्तां निरुक्त्यलंकृतिं लक्षयति- निरुक्तिरिति । तामुदाहरति - अनाथेति । शशः प्रसिद्ध एव । तस्य धर्ती हि मृगव्यापारे क्षत्रियपालितः श्वविशेषः प्रसिद्ध एव । स यथा अनाथानां शशमृगादीनां व्यथकस्तद्वदनाथायाः प्रोषितपतिकाया विरहिण्याः प्राणान्तव्यथाकर चन्द्र त्वं शशधर इति युक्तमेवेति भावः ।
1
૪૪