Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
५२७
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
संदेहत्रितयं भ्रान्तिश्चैवमान्स्मृतिरप्यथ। उल्लेखः षड्विधश्चैवापद्धतिश्चापि षड्विधा ॥ ३११ ॥ निश्चयश्च तथोत्प्रेक्षा सप्तधा परिकीर्तिता। दशधातिशयोक्तिः स्यादेकधा तुल्ययोगिता ॥ ३१२॥ दीपकं प्रतिवस्तूपमा त्रिधा गदिता बुधैः । दृष्टान्तो द्विविधश्चैव चतुर्धेव निदर्शनाः ॥ ३१३ ॥ व्यतिरेकः सहोक्तिश्च विनोक्तिश्च तथैवच । समासोक्तिः परिकरस्तथा परिकराङ्कुरः॥ ३१४॥ श्लेषो नवविधोऽप्रस्तुतप्रशंसैकधा मता। प्रस्तुताङ्कर एकः स्यात्पर्यायोक्तद्वयं तथा ॥ ३१५॥ व्याजस्तुतिः पञ्चधैव व्याजनिन्दा तथैव च। आक्षेपश्च विरोधाभासद्वयं परिकीर्तितम् ॥ ३१६ ॥ विभावना षड्विधा स्याद्विशेषोक्तिस्तथैव च । असंभावोऽसंगतिश्च त्रिविधा विषमं समम् ॥ ३१७ ॥ विचित्रमधिके चाल्पमन्योन्यद्वयमेव च । विशेषत्रितयं व्याघातौ च कारणमालिके ॥ ३१८॥ एकावल्यौ तथा सारौ यथासंख्यं तथैव च । पर्यायौ परिवृत्तिश्च परिसंख्या विकल्पकः ॥ ३१९ ॥ समुच्चयः समाधिश्च प्रत्यनीकं तथैवच । काव्यार्थापत्तिरेवं स्यात्काव्यलिङ्गं तथैव च ॥ ३२०॥ तद्वदर्थान्तरन्यासौ प्रौढोक्तिर्ललितं तथा । प्रहर्षणत्रयं चैव तथोल्लासश्चतुर्विधः ॥ ३२१ ॥ अविज्ञा द्विविधा लेशौ तहुणः पूर्वरूपकम् । अतद्गुणश्चानुगुणो मीलितं च तथैवच ॥ ३२२ ।। सामान्यमुत्तरं सूक्ष्म पिहितं च तथैवच । व्याजोक्तिरथ गूढोक्तियुक्तिर्वक्रोक्तिरेव च ॥ ३२३ ॥
संदेहेति ॥ ३११ ॥ निश्चयश्चेति । एकधा एकप्रकारा ॥ ३१२ ॥ दीपकमिति ॥ ३१३ ॥ व्यतिरेक इति ॥ ३१४ ॥ श्लेष इति । अप्रस्तुतेति च्छेदः ॥ ३१५ ॥ व्याजस्तुतिरिति ॥ ३१६ ॥ विभावनेति । असंगतिरिति तु स्पष्टमेव ॥ ३१७ ॥ विचित्रमिति । अधिके इति द्विवचनात्तदीयं भेदद्वयमेवेत्यर्थः । एवमेव व्याघातावित्यत्रापि । एतेन कारणेत्याद्यपि व्याख्यातम् ॥ ३१८ ॥ एकावल्याविति । प्राग्वदेव ॥ ३१९ ॥ समुच्चय इति । ॥ ३२० ॥ तद्वदिति ॥ ३२१ ॥ अवशेति ॥ ३२२ ॥ सामान्यमिति

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576