SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ५२७ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । संदेहत्रितयं भ्रान्तिश्चैवमान्स्मृतिरप्यथ। उल्लेखः षड्विधश्चैवापद्धतिश्चापि षड्विधा ॥ ३११ ॥ निश्चयश्च तथोत्प्रेक्षा सप्तधा परिकीर्तिता। दशधातिशयोक्तिः स्यादेकधा तुल्ययोगिता ॥ ३१२॥ दीपकं प्रतिवस्तूपमा त्रिधा गदिता बुधैः । दृष्टान्तो द्विविधश्चैव चतुर्धेव निदर्शनाः ॥ ३१३ ॥ व्यतिरेकः सहोक्तिश्च विनोक्तिश्च तथैवच । समासोक्तिः परिकरस्तथा परिकराङ्कुरः॥ ३१४॥ श्लेषो नवविधोऽप्रस्तुतप्रशंसैकधा मता। प्रस्तुताङ्कर एकः स्यात्पर्यायोक्तद्वयं तथा ॥ ३१५॥ व्याजस्तुतिः पञ्चधैव व्याजनिन्दा तथैव च। आक्षेपश्च विरोधाभासद्वयं परिकीर्तितम् ॥ ३१६ ॥ विभावना षड्विधा स्याद्विशेषोक्तिस्तथैव च । असंभावोऽसंगतिश्च त्रिविधा विषमं समम् ॥ ३१७ ॥ विचित्रमधिके चाल्पमन्योन्यद्वयमेव च । विशेषत्रितयं व्याघातौ च कारणमालिके ॥ ३१८॥ एकावल्यौ तथा सारौ यथासंख्यं तथैव च । पर्यायौ परिवृत्तिश्च परिसंख्या विकल्पकः ॥ ३१९ ॥ समुच्चयः समाधिश्च प्रत्यनीकं तथैवच । काव्यार्थापत्तिरेवं स्यात्काव्यलिङ्गं तथैव च ॥ ३२०॥ तद्वदर्थान्तरन्यासौ प्रौढोक्तिर्ललितं तथा । प्रहर्षणत्रयं चैव तथोल्लासश्चतुर्विधः ॥ ३२१ ॥ अविज्ञा द्विविधा लेशौ तहुणः पूर्वरूपकम् । अतद्गुणश्चानुगुणो मीलितं च तथैवच ॥ ३२२ ।। सामान्यमुत्तरं सूक्ष्म पिहितं च तथैवच । व्याजोक्तिरथ गूढोक्तियुक्तिर्वक्रोक्तिरेव च ॥ ३२३ ॥ संदेहेति ॥ ३११ ॥ निश्चयश्चेति । एकधा एकप्रकारा ॥ ३१२ ॥ दीपकमिति ॥ ३१३ ॥ व्यतिरेक इति ॥ ३१४ ॥ श्लेष इति । अप्रस्तुतेति च्छेदः ॥ ३१५ ॥ व्याजस्तुतिरिति ॥ ३१६ ॥ विभावनेति । असंगतिरिति तु स्पष्टमेव ॥ ३१७ ॥ विचित्रमिति । अधिके इति द्विवचनात्तदीयं भेदद्वयमेवेत्यर्थः । एवमेव व्याघातावित्यत्रापि । एतेन कारणेत्याद्यपि व्याख्यातम् ॥ ३१८ ॥ एकावल्याविति । प्राग्वदेव ॥ ३१९ ॥ समुच्चय इति । ॥ ३२० ॥ तद्वदिति ॥ ३२१ ॥ अवशेति ॥ ३२२ ॥ सामान्यमिति
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy