Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
कौस्तुभरत्नम् ८ ] सरसामोदव्याख्यासहितम् ।
४४९ भेदेन स्थित इति । 'अन्धेन पातभीत्या संचरता विषमविषयेषु । दृढमिह मया गृहीता हिमगिरिशृङ्गादुपागता गङ्गा' । अत्र गिरिशृङ्गप्रभववेणुयष्टिव्यवहाराभेदेनेति प्रभृतयो भेदाः किमिति निरूपिताः । तस्मात्प्रकृतार्थप्रतिपादकेन वाक्येन श्लिष्टविशेषणमाहात्म्यान तु विशेष्यस्य सामर्थ्यादपि यदप्रकृतस्याप्यर्थस्याभिधानं सा समासेन संक्षेपेणार्थद्वयकथनात्समासोक्तिरिति काव्यप्रकाशादिसकलप्रौढालंकाराकरप्रसिद्धत्वात्समासोक्तिखण्डनं तत्र गौणव्यङ्गयभेदत्वमण्डनं च
खग्रन्थोपक्रमोपसंहारादिकमप्यपश्यतः पण्डितराजस्य पण्डिता एव किंमूलकमिति विदांकुर्वन्तु चिरतरम् । एतेनाग्रिममत्रैव प्रकरणे तत्कृतं कुवलयानन्दखण्डनमपि विडम्बितप्रायमेव । तद्यथा-यत्तु कुवलयानन्दे सारूप्यादपि समासोक्तिदृश्यते यथा-"पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम् । बहोईष्टं कालादपरमिव मन्ये वनमिदं निवासः शैलानां तदिदमिति बुद्धिं द्रढयति' । अत्र वनवर्णने प्रस्तुते तत्सारूप्यात्कुटुम्बिषु धनसंतानादिसमृद्ध्यसमृद्धिविपर्यासं प्राप्तस्य तत्समाश्रयस्य ग्रामनगरादेर्वृत्तान्तः प्रतीयत इत्युक्तम् । तदसत् । समासोक्तिजीवातोर्विशेषणसाम्यस्यात्राभावेन समासोक्तिताया एवानुपपत्तेरित्यादि । तत्र 'निशामुखं चुम्बति चन्द्र एषः' इत्यत्र स्त्रीलिङ्गपुंलिङ्गाभ्यां मुखचुम्बनरूपार्थसचिवाभ्यां नायिकात्वं नायकत्वं च व्यज्यत इति हि निर्विवादमित्यस्मिन्नेव प्रकरणे प्राक्तेनैवोक्तम् । तत्र यदि विशेषणसाम्यं स्त्रीलिङ्गत्वादिनैव समासोक्तिघटकंतह्यत्रापिस्रोतःपुलिनयोर्धनसंतानसाधारणं क्लीबत्वं सरितां क्षितिरुहां च कुटुम्बिनी कुटुम्बिसाधारणं स्त्रीलिङ्गत्वं पुंलिङ्गवं च नैव दण्डख ण्डितम् । एवं तत्र मुखचुम्बनरूपोऽर्थः सहायश्चेत्तीत्रापि विपर्यासरूपः स तादृशः स्फुट एव । तथाच पुरा यत्रेत्याद्युदाहरणे विशेषणसाम्याभावात्समासोक्तरेवाभावकथनं साहसमात्रमेवेति ध्येयं पक्षपातविधुरैर्विबुधवरैधीरैरेवेति दिक् ॥ एवं रसगङ्गाधर एव समासोक्तिविशेषोदाहरणान्तराण्यपि । यथा-'गुणवृद्धी परे यस्मिन्नैव स्तः प्रत्ययात्मके । बुधेषु सदिति ख्यातं तद्ब्रह्म समुपास्महे' इति । अत्र वेदान्तशास्त्रसिद्धव्यवहारे व्याकरणशास्त्रसिद्धस्य शतृशानज्व्यवहारस्य लौकिके । शास्त्रीयस्य यथा-'परार्थव्यासङ्गादुपजहदथ खार्थपरतामभेदैकत्वं यो वहति गुणभूतेषु सततम् । खभावाद्यस्यान्तः स्फुरति ललितोदात्तमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः' । अत्र समर्थसूत्रगतमहाभाष्यार्थस्य । तत्रहि 'अथ ये वृत्तिं वर्तयन्ति किं त आहुः' इत्यादिना जहत्वार्थावृत्तिरजहस्वार्थावृत्तिरिति पक्षद्वयं निरूपितम् । तत्रैवोपसर्जनार्थेऽभेदैकत्वसंख्यापि ध्वनिता । प्रकटीकृता च हरिणा-'यथौषधिरसाः सर्वे मधुन्याहितशक्तयः । अविभागेन वर्तन्ते तां संख्यां तादृशी विदुः' इति । 'व्यागुञ्जन्मधुकरपुञ्जमझुगीतामाकर्ण्य स्तुतिमुदयन्नयातिरेकात् । आभूमीतलनतकन्धराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि' इत्यादि । यथावा मदीयाद्वैतामृतमज

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576