SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८ ] सरसामोदव्याख्यासहितम् । ४४९ भेदेन स्थित इति । 'अन्धेन पातभीत्या संचरता विषमविषयेषु । दृढमिह मया गृहीता हिमगिरिशृङ्गादुपागता गङ्गा' । अत्र गिरिशृङ्गप्रभववेणुयष्टिव्यवहाराभेदेनेति प्रभृतयो भेदाः किमिति निरूपिताः । तस्मात्प्रकृतार्थप्रतिपादकेन वाक्येन श्लिष्टविशेषणमाहात्म्यान तु विशेष्यस्य सामर्थ्यादपि यदप्रकृतस्याप्यर्थस्याभिधानं सा समासेन संक्षेपेणार्थद्वयकथनात्समासोक्तिरिति काव्यप्रकाशादिसकलप्रौढालंकाराकरप्रसिद्धत्वात्समासोक्तिखण्डनं तत्र गौणव्यङ्गयभेदत्वमण्डनं च खग्रन्थोपक्रमोपसंहारादिकमप्यपश्यतः पण्डितराजस्य पण्डिता एव किंमूलकमिति विदांकुर्वन्तु चिरतरम् । एतेनाग्रिममत्रैव प्रकरणे तत्कृतं कुवलयानन्दखण्डनमपि विडम्बितप्रायमेव । तद्यथा-यत्तु कुवलयानन्दे सारूप्यादपि समासोक्तिदृश्यते यथा-"पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम् । बहोईष्टं कालादपरमिव मन्ये वनमिदं निवासः शैलानां तदिदमिति बुद्धिं द्रढयति' । अत्र वनवर्णने प्रस्तुते तत्सारूप्यात्कुटुम्बिषु धनसंतानादिसमृद्ध्यसमृद्धिविपर्यासं प्राप्तस्य तत्समाश्रयस्य ग्रामनगरादेर्वृत्तान्तः प्रतीयत इत्युक्तम् । तदसत् । समासोक्तिजीवातोर्विशेषणसाम्यस्यात्राभावेन समासोक्तिताया एवानुपपत्तेरित्यादि । तत्र 'निशामुखं चुम्बति चन्द्र एषः' इत्यत्र स्त्रीलिङ्गपुंलिङ्गाभ्यां मुखचुम्बनरूपार्थसचिवाभ्यां नायिकात्वं नायकत्वं च व्यज्यत इति हि निर्विवादमित्यस्मिन्नेव प्रकरणे प्राक्तेनैवोक्तम् । तत्र यदि विशेषणसाम्यं स्त्रीलिङ्गत्वादिनैव समासोक्तिघटकंतह्यत्रापिस्रोतःपुलिनयोर्धनसंतानसाधारणं क्लीबत्वं सरितां क्षितिरुहां च कुटुम्बिनी कुटुम्बिसाधारणं स्त्रीलिङ्गत्वं पुंलिङ्गवं च नैव दण्डख ण्डितम् । एवं तत्र मुखचुम्बनरूपोऽर्थः सहायश्चेत्तीत्रापि विपर्यासरूपः स तादृशः स्फुट एव । तथाच पुरा यत्रेत्याद्युदाहरणे विशेषणसाम्याभावात्समासोक्तरेवाभावकथनं साहसमात्रमेवेति ध्येयं पक्षपातविधुरैर्विबुधवरैधीरैरेवेति दिक् ॥ एवं रसगङ्गाधर एव समासोक्तिविशेषोदाहरणान्तराण्यपि । यथा-'गुणवृद्धी परे यस्मिन्नैव स्तः प्रत्ययात्मके । बुधेषु सदिति ख्यातं तद्ब्रह्म समुपास्महे' इति । अत्र वेदान्तशास्त्रसिद्धव्यवहारे व्याकरणशास्त्रसिद्धस्य शतृशानज्व्यवहारस्य लौकिके । शास्त्रीयस्य यथा-'परार्थव्यासङ्गादुपजहदथ खार्थपरतामभेदैकत्वं यो वहति गुणभूतेषु सततम् । खभावाद्यस्यान्तः स्फुरति ललितोदात्तमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः' । अत्र समर्थसूत्रगतमहाभाष्यार्थस्य । तत्रहि 'अथ ये वृत्तिं वर्तयन्ति किं त आहुः' इत्यादिना जहत्वार्थावृत्तिरजहस्वार्थावृत्तिरिति पक्षद्वयं निरूपितम् । तत्रैवोपसर्जनार्थेऽभेदैकत्वसंख्यापि ध्वनिता । प्रकटीकृता च हरिणा-'यथौषधिरसाः सर्वे मधुन्याहितशक्तयः । अविभागेन वर्तन्ते तां संख्यां तादृशी विदुः' इति । 'व्यागुञ्जन्मधुकरपुञ्जमझुगीतामाकर्ण्य स्तुतिमुदयन्नयातिरेकात् । आभूमीतलनतकन्धराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि' इत्यादि । यथावा मदीयाद्वैतामृतमज
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy