________________
४४८
साहित्यसारम्।
[ उत्तरार्धे
त्सर्वमसंगतमिति सर्वात्मना तदसांगत्यं प्रतिज्ञाय । तत्र हेत्वाकाङ्क्षायां यत्तावदुच्यते-मुखं चन्द्र इत्यत्र मुखे चन्द्रत्वारोप इति तत्र नामार्थयोरभेदेनैवा. न्वयान्मुखे चन्द्रस्यारोपो न चन्द्रत्वस्य चन्द्र विशेषणस्येत्येकं प्रथमं दूषणमुक्तं तत्सत्यमेव । तथापि मुखं चन्द्र इत्यादौ मुखे चन्द्रत्वारोपहेतुमुखशब्दसमभिव्याहारवदिति त्वयैवात्र तदन्थानुवादे वाक्यमुक्तम् । तत्र मुखे वदने चन्द्रत्वेन धर्मेण आह्वादकत्वसामान्येन यश्चन्द्रस्यारोप इत्यार्थिकम् । यद्वा चन्द्रत्वविशिष्टस्य चन्द्रस्य य आरोपः तस्य हेतुः कारणीभूतो यो मुखशब्देन सह समभिव्याहारः मुखं चन्द्र इति समानविभक्तिवचनत्वेनाव्यवधानेन चाभिधानं तद्वदिति सरलधियामर्थः प्रतीयते । अतएव न्यायरत्नावलीकारैः समुदाहृते 'इदमर्थवस्त्वपि भवेद्रजते परिकल्पितं रजतवस्त्विदमि । रजतभ्रमेऽस्य च परिस्फुरणान यदि स्फुरेनहि तु शुक्तिरिव' इतिश्लोके शुक्तिरिवेत्यस्य व्याख्याने । शुक्तिरिव शुक्तित्वविशिष्टवत् इत्यवच्छेदकपुरस्कारेणैव ब्रह्मानन्दसरखतीभिस्तदभिहितमुपमानम् । ततोऽत्र दीक्षितैरवच्छेदकघटितमेव चन्द्रत्वेत्यायुक्तम् । तथाच कोऽत्र दोषलेशोपि । एवं तदने यदप्युच्यते जारा. दिपदसमभिव्याहारस्य हेतोर्विरहान चन्द्रादौ जारत्वारोप इति । तन्न । श्रौतारोपे तादृशसमभिव्याहारस्य हेतुत्वं नत्वार्थारोपे । अन्यथा रूपकध्वनेरुच्छेदापत्तेः । नच रूपकध्वनावारोप्यमाणसाधारणधर्मोकिरारोप्यमाणतादात्म्यव्यजिका । नचेह तथा किंचिदस्तीति वाच्यम् । इहापि परनायिकामुखचुम्बनस्य श्लेषमर्यादया व्यञ्जनमर्यादया वा प्रतीतस्य प्रकृतधर्मिणि चन्द्रे आरोप्यमाणस्य जारासाधारणधर्मत्वेन जारत्वव्यजकतायाः स्फुटत्वादित्यादिनाऽप्रकृतव्यवहारमात्रारोपे दूषणान्तरं प्रपञ्च्य । तस्मादप्रकृताभिन्नतया व्यवसितः प्रकृतव्यवहारः खविशेष्ये तद्विशेष्याभिन्नतयावस्थिते भासते तत्राप्रकृतार्थ उपस्कारकतया गुण इति प्रकार एव रमणीय इति निगमितम् । एवं चैतावतोपपादनेन तथा । यदित्थं व्यञ्जनमाहात्म्यादेवाप्रकृतवाक्यार्थतादात्म्येन प्रकृतवाक्यार्थोऽवतिष्ठते, गुणीभूतव्यनयभेदश्चायमिति तु रमणीयः पन्था इति प्राक्तननिर्णयग्रन्थेन च समासोक्तिर्नाम कश्चिदर्थालंकारो नैव किंतु गुणीभूतव्यङ्गयभेद एवेति सिद्धम् । तर्हि विनोक्त्यलंकारनिरूपणानन्तरं भवतैव समासोक्तित्वेन तल्लक्षणं प्रथमतएव किमिति कृतं। तथा अथास्याः केचन भेदा निगद्यन्त इति प्रतिज्ञाय समासोकेरेव भेदाः-'उत्सङ्गे तव गङ्गे पायंपायं पयोऽतिमधुरतरम् । शमिताखिलश्रमभरः कथय कदाहं चिराय शयिताहे'। अत्र शिशुजननीवृत्तान्ताभेदेन स्थितः प्रकृतवृत्तान्त इति । 'अलंकतुं कौँ भृशमनुभवन्या नव. रुजं ससीत्कारं तिर्यग्वलितवदनाया मृगदृशः । कराब्जव्यापारानतिसुकृतसाराबसयतो जनुः सर्वे श्लाघ्यं जयति ललितोत्तंस भवतः । अत्र नवकान्तया क्लेशेन कर्णे क्रियमाणस्योत्तंसस्य वृत्तान्तः प्रत्यग्रखण्डिताधरकामुकवृत्तान्ता