SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ] सरसामोदव्याख्यासहितम् । ४४७ वयवतादात्म्यापन्नतदवयवाभेदेनावतिष्ठते । सच परिणाम इव प्रकृतात्मनैव कार्योपयोगी खात्मना च रसायुपयोगी । अत्र चाप्रकृतार्थस्य पृथक्शब्दानुपादानाद्रूपकाद्वाक्यार्थसंबन्धिनो वैलक्षण्यम् । पदार्थरूपकात्तु स्फुटमेव । आक्षितार्थघटितत्वात् । वाक्यार्थशेषात् । एवंचात्र शक्याांक्षेपाभ्यां सर्वार्थनिर्वाह इति भामहोद्भटप्रभृतीनां चिरंतनानामाशयः । 'निशामुखं चुम्बति चन्द्र एषः' इत्यादौ निशाचन्द्रशब्दयोरश्लिष्टत्वान्मुखचुम्बनमात्रस्य पुत्रादिसाधारण्येन कथं तावनियतनायकाक्षेपकवं कथंवाऽक्षिप्तस्यापि नायकादेर्निशाचन्द्रयोरेवाभेदेनान्वयो न भेदेन चुम्बानादौ । तथात्वे च तयो यक ताटस्थ्ये रत्यनुद्वोधापत्तेः । तस्मात् 'निशामुखं चुम्बति चन्द्रिकैषा' 'अहर्मुखं चुम्बति चण्डभानुः' इत्यादावप्रतीयमाननायकत्वम् । प्रकृते टापप्रथमाभ्यां प्रतिपादितेन प्रकृत्यर्थगतेन स्त्रीत्वेन पुंस्त्वेन च स्वाधिकरण एवाभिव्यज्यते । एवंच शशिनो नायकत्वसिद्धिः। श्लिष्टविशेषणैर्व्यजनाव्यापारेणैवाप्रकृतार्थबोधनम् । शक्तेः प्रकरणादिना नियन्त्रणात् । यदित्थं व्यञ्जनमाहात्म्यादेवाप्रकृतवाक्यार्थतादात्म्येन प्रकृतवाक्यार्थोऽवतिष्ठते । गुणीभूतव्यङ्गयभेदश्चायमिति तु रमणीयः पन्थाः इति खसंमतसमासोतिरहस्यं निरुच्याग्रेऽलंकारसर्वस्खकारमतं सानुवादं विदलय्य पण्डितराजैः। यत्तु सर्वस्वकाराज्ञानुवर्तिना कुवलयानन्दकृता सपूर्वपक्षसिद्धान्तमुक्तम् । अत्र विशेषणसाम्यात्सारूप्याद्वा यदप्रस्तुतवृत्तान्तस्य प्रत्यायनं तत्प्रस्तुते विशेष्ये तत्समारोपार्थम् । सर्वथैव प्रस्तुतानन्वयिनः कविसंरम्भगोचरवायोगात्ततः समासोक्तावप्रस्तुतव्यवहारसमारोपश्चारुताहेतुः । नतु रूपक इव प्रस्तुतेऽप्रस्तुतसमारोपोऽस्ति । मुखं चन्द्र इत्यादौ मुखे चन्द्रत्वारोपहेतुमुखशब्दसमभिव्याहारवत् 'रक्तश्चम्बति चन्द्रमाः' इत्यादिसमासोक्तयुदाहरणे चन्द्रादौ जारत्वारोपहेतोस्तद्वाचकपदसमभिव्याहारस्याभावात् । नचेह ‘निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः' इत्यत्र निरीक्षणगुणानुगुणनयनोपादानं यथा पयोदस्य द्रष्टपुरुषलगमकं तथा किंचिजारत्वस्यास्ति । 'त्वय्यागते किमिति वेपत एष सिंधुस्त्वं सेतुमन्थकृदतः किमसौ बिभेति' इत्यत्र सेतुमन्थकृत्त्वं विष्णोः कार्य यथा राज्ञो विष्णुत्वस्य तथा किंचिदस्ति । तस्माद्विशेषणसमर्पिताप्रस्तुतव्यवहारसमारोपमात्रमिह चारुताहेतुः । यद्यपि विशेषणसमर्पितयोर्द्वयोरप्यर्थयोरविशिष्टं प्राधान्यं तथाप्यन्यतराश्रये धर्मिण्यन्यतरारोपस्यावश्यकत्वे श्रुते प्रकृतव्यवहारधर्मिण्येवाप्रकृतव्यवहारस्यारोप उचितः । तस्य च स्वरूपतो ज्ञातस्यारोपे चारुत्वाभावात्कामुकाद्यप्रस्तुतमिसंबन्धित्वेनावगम्यमानस्य रसानुगुणत्वादारोपः । कामुकादेश्च पदादनुपस्थितस्यापि चुम्बनादिना व्यजितस्य व्यवहारविशेषणत्वम् । तस्मात् 'अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः' इत्यत्र जारसंबन्धितादृशचुम्बनरूपव्यवहाराश्रय इत्येव बोध इति कुवलयानन्दकृन्मतमत्र विशेषणेयादिना पदसमभिव्याहारस्याभावादित्यन्तेन ग्रन्थेनाक्षरतस्तदने तात्पर्यतश्चानूय । तदेत
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy