SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ४४६ साहित्यसारम् । [ उत्तरार्धे ताकर्षणक्षोभोन्मोटनभजनानि जनतः खैरेव दुश्चेष्टितैः' । अत्रोपमानभूतस्य सद्क्षस्य व्याजगहणया तदुपमेयः कोऽपि सत्पुरुषो विगीत इति सेयं प्रतीयमानसादृश्या गर्दावती नाम समासोक्तिः इत्यादि । किंच तत्रैवाग्रे अभिधीयमानसादृश्या श्लाघावंती तुल्याकारविशेषणा यथा-'नालस्य प्रसरो जलेष्वपि कृतावासस्य कोशे रुचिर्दण्डे कर्कशता मुखे च मृदुता मित्रे महान्प्रश्रयः । आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे यस्यैषा स्थितिरम्बुजस्य वसतिर्युकैव तत्र श्रियः' इत्यादि । किंच तत्रैवाग्रे-अन्योक्तिर्द्विविधा खजातौ जात्यन्तरे च । तयोः खजातौ यथा-'लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः। बलिरेष स येनास्य भिक्षापात्रीकृतः करः' इत्यादि । यथावा साहित्यदर्पणे—'व्याधूय यद्वसनमम्बुज. लोचनाया वक्षोजयोः कनककुंभविलासभाजोः । आलिङ्गसि प्रसभमङ्गमशेषमस्माद्धन्यस्त्वमेव मलयाचलगन्धवाह' । अत्र गन्धवाहे कामुकलव्यवहारसमारोप इति। तत्रैवाग्रे यथा-'विकसितमुखी रागावेगाद्गलत्तिमिरावृति दिनकरकरस्पृष्टामैन्द्री निरीक्ष्य दिशंपुरः।जरठलवलीपाण्डुच्छायो भृशं कलुषान्तरः श्रयति हरितं हन्त प्राचेतसी तुहिनद्युतिः' इति । एवं तत्रैवाने-'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानानखक्षताभम् । प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरप्यधिकं चकार' इत्यादि । यथावा कुवलयानन्दे-यावल्गत्कुचभारमाकुलकचं व्यालोलहारावलि प्रेतत्कुण्डलशोभिगण्डयुगुलं प्रखेदिवाम्बुजम् । शश्वद्दत्तकरप्रहारमधिकश्वासं रसादेतया यस्मात्कन्दुक सादरं सुभगया संसेव्यसे तत्कृती' । अत्र कन्दुकवृत्तान्ते वर्ण्यमाने व्यावल्गत्कुचभारमित्यादिक्रियाविशेषणसाम्याद्विपरीतरतासक्तनायकवृ. त्तान्तः प्रतीयते' इति । यथावा रसगङ्गाधरे-'विबोधयन्करस्प®ः पद्मिनी मुद्रिताननाम् । परिपूर्णोऽनुरागेण प्रातर्जयति भास्करः' इति । अत्र किरणस्पर्शकरणकमुकुलितपद्मिनीकर्मकविकासानुकूलव्यापारवदभिन्नो भास्करो जयतीति वाक्यार्थः शक्त्यैव तावत्प्रतीयते । हस्तस्पर्शकरणकनायिकाविशेषकर्मकानुनयानुकूलव्यापारवदभिन्न इत्यादिश्वापरोऽर्थ उभयत्रानुषक्तया तयैव शक्त्या शक्त्यन्तरेण व्यक्त्या वा सर्वथैव प्रतीयत इत्यत्र सहृदया एव प्रमाणम् । एवंच द्वाविमौ वाक्यार्थौ सव्येतरगोविषाणवदन्यतासंसृष्टौ यदि स्यातां तदा भगवतो भा. स्करस्य कामुकत्वं कमलिन्या नायिकालं च सकलप्रतीतिसिद्धं विरुद्धं स्यात् । द्विप्रधानत्वे वाक्यभेदश्चापद्येत । यदि चापरोऽर्थः प्रकृतकर्तर्यारोप्यते तदा कमलिनीविकासकर्ता नायिकानुनयकर्ता च सूर्य एकत्र द्वयमिति विषयताशाली बोधः स्यानतु पूर्वोक्तानुपपत्तिपरिहारः । यदि च श्लेषमूलाभेदाध्यवसानेन कमलिन्यादीनां नायिकात्वादिप्रत्यय उपपाद्यते तथाप्यश्लिष्टपदोपस्थितो भगवान्नायकत्वाघ्रात एव । पद्मिनीशब्दस्थाने नलिनीशब्दोपादाने सापि नायिकात्वेन कथं नाम प्रतीतिपथमियात् । तस्माद्विशेषणसाम्यमहिम्ना प्रतीतोऽप्रकृतवाक्यार्थः खानुगुणं नायकादिमर्थमाक्षिप्य तेन परिपूर्णविशिष्टशरीरः प्रकृतवाक्यार्थो स्व
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy