SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । पद्मिनी लालयन्प्रातः स्ववियोगान्मुनिव्रताम् । रागी करपरामर्शः स्मेरयन्भाति भास्करः ॥ १८०॥ .त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि' इति पण्डितराजार्यायामपि क्रमात् श्लेषाप्रस्तुतप्रशंसावशाद्धर्मभानवद्धर्मिभानस्यापि स्फुटत्वात् । एवं विशेषणेषु मधुरत्वं रसायनुगुण्यमेव । अन्यथा 'राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा' इति रघुवंशीयपद्यवद्रसायननुगुण्यापत्तेः । शिष्टं तु स्पष्टमेव । तदेतदुक्तं रसगङ्गाधरे'यत्र प्रस्तुतधर्मिको व्यवहारः साधारणविशेषणमात्रोपस्थापिताप्रस्तुतमिव्यवहाराभेदेन भासते सा समासोक्तिः' इति । अत्र विस्तरस्तु तत्रैव बोध्य इति दिक ॥ १७९ ॥ तामुदाहरति-पद्मिनीमिति । भास्करः सूर्यः यतः रागी औदयि. करक्तिमशाली, पक्षेऽनुरागवानित्यर्थः । अतः प्रातः । खेति । खकिरणसंपर्काभावान्मुकुलितां, पक्षे निजविरहात् कृतमौनव्रतामिति यावत् । एतेन निरतिशयितपातिव्रत्यं द्योत्यते । एतादृशी पद्मिनी कमलिनीम् , पक्षे एतज्जातीयकत्वेन कामशास्त्रप्रसिद्धां नायिकाम् । एतेन निरतिशयसौन्दर्य सूच्यते । करेति । किरणसंचारैरित्यर्थः । पक्षे हस्तकरणकतत्कपोलादिसमास्फालनैरित्येतत् । लालयन् तनिष्ठतमःसंहरणेन समुज्ज्वलयन्सन्नित्यर्थः, पक्षे मृदुतरस्पर्शसंजातसुखतः संतोषयन्सन्नित्येतत् । अतएव स्मेरयन्विकसयन् , पक्षे हर्षयन्निति यावत् । भाति शोभत इत्यन्वयः । अत्र रागादिस्मेरान्तः प्रकृतसूर्याख्यधर्मिनिष्ठैः साधारणविशेषणैः प्रकृतस्तन्निष्टोऽपि व्यवहारः किरणकरणकः कमलिनीकर्मकस्तदीयतमोनिराकरणतद्विकासनेऽनुकूल: सूर्यकर्तृकः क्रियाविशेषात्मको व्यापारः श्रवणक्षण एव अप्रकृतनायकविशेषनिष्ठनायिकाविशेषपरितोषणव्यवहारत्वेन प्रती. यत इति लक्षणसमन्वयः । इह प्रातःपदेन नायिकायां खण्डितालं ध्वन्यते । यथावा सरस्वतीकण्ठाभरणे-'यत्रोपमानादेवैतदुपमेयं प्रतीयते। अतिप्रसिद्धे. स्तामाहुः समासोक्तिं मनीषिणः' । प्रतीयमाने वाच्ये वा सादृश्ये सोपजायते । श्लाघां गर्हामुभे नोभे तदुपाधीन्प्रचक्षते। विशेष्यमात्रभिन्नापि तुल्याकारविशेषणा। अस्त्यसावपराप्यस्ति तुल्यातुल्यविशेषणा । संक्षेपेणोच्यते यस्मात्समासोक्तिरिय ततः । सैवान्योक्तिरनन्योक्तिरुभयोक्तिश्च कथ्यते'।तत्र प्रतीयमानसादृश्यश्लाघावती यथा-'उत्तुङ्गे कृतसंश्रयस्य शिखरिण्युच्चावचग्रावणि न्यग्रोधस्य किमङ्ग तस्य वचसा श्लाघासु पर्याप्यते । बन्धुर्वा स पुरा कृतः किमथवा सत्कर्मणां संचयो मार्गे रूक्षविपत्रशाखिनि जनो यं प्राप्य विश्राम्यति' । अत्र न्यग्रोधेनैवोपमानेन प्रतीयमानसादृश्यस्य वर्णनीयवदान्योपमेयस्योक्तखात् तच्छाघयैव तच्छाघाप्रतीयत इति सेयं प्रतीयमानसादृश्या श्लाघावती समासोक्तिः । सैव गहविती यथा'किं जातोऽसि चतुष्पथे यदि घनच्छायोऽसि किं छायया संपन्नः फलितोऽसि किं यदि फलैः पूर्णोऽसि किं संनतः । हे सद्वृक्ष सहख संप्रति शिखाशाखाश
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy