________________
४४४
साहित्यसारम् ।
[ उत्तरार्धे यत्र प्रस्तुतधर्मिस्थः साधारणविशेषणैः ।
व्यवहारोऽतथा भाति सा समासोक्तिरुच्यते ॥ १७९ ॥ आदिना अचारुता । एवं संबन्धे रम्यत्वं प्राग्वदत्रापि बोध्यम् । तेन 'जलं विना मरुर्दुष्टो मूर्यो विद्यां विनाऽधमः' इत्यादौ मरुमूर्खादिपदार्थेषु वरूपत एव विधीयमानस्य दौष्टयाधायकस्य जलाद्यभावलक्षणस्य विनार्थसंबन्धस्य निसर्गसिद्धत्वेन पौनरुक्त्याधायकत्वरूपारम्यत्वात्तधुदासः । एवमर्थपदे ऋतेअन्तराप्रभृतिविनाशब्दपर्यायानां संग्रहः । द्विविधामपि तां क्रमेणोदाहरति-सतीत्यादिपादाभ्याम् । औद्धत्यं विना विद्या सती तथा श्रीः संपत् सद्ययं विना अश्री: शोभाशून्या भवतीत्यन्वयः । यथावा रसगङ्गाधरे रमणीयत्वे यथा-'पझेविना सरो भाति सदः खलजनैर्विना । कटुवर्णैर्विना काव्यं मानसं विषयैर्विना' इति । अन्ये यथा । काव्यप्रकाशे-'अरुचिनिशया विना शशी शशिना सापि विना महत्तमः । उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः' इति । यथावा रसगङ्गाधरे-'संपदा संपरिष्वक्तो विद्यया चानवद्यया । नरोन शोभते लोके हरिभक्तिरसं विना'। यथावा-'वदनं विना सुकवितां सदनं साध्वीं विना वनिताम् । राज्यं च विनाधनितां न नितान्तं भाति कमनीयम्'। मिश्रिता यथा-रागं विना विराजन्ते मुनयो मणयस्तुन । कौटिल्येन विना भाति नरो न कबरीभरः' इति । अलंकारभाष्यकारस्तु नित्यसंबन्धानामसंबन्धवचनं विनोतिरित्याह । तन्मते तु नैतान्युदाहरणानि । इदं तूदाहरणम्-'मृणालमन्दानिलचन्दनानामुशीरशैवालकुशेशयानाम् । वियोगदूरीकृतचेतनाया विनैव शैत्यं भवति प्रतीतिः'। अत्र शैत्यस्याविनाभावेऽपि विनाभावो निबद्ध इति । ध्वनितपरस्परविनोक्तिर्यथा-'निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा प्रहृष्टा नलिनी न येन' इति ॥ १७८ ॥ एवं संबन्धविशेषात्मकविनोक्तिनिरुक्तिप्रसक्तां समासोकिं लक्षयति यति । यत्र अलंकृतौ । प्रस्तुतेति । प्रकृतवर्ण्यविशेषनिष्ठ इत्यर्थः । एतादृशो यो व्यवहारः कश्चिद्यापारविशेष इति यावत् । साधारणेति । प्रकृताप्रकृतानुगतश्लेषादिसिद्धचारुधमॆरित्येतत् । अत. शेति । अप्रकृतनिष्ठ एव भाति परिस्फुरति । सा समासोतिरुच्यत इति योजना । एवं च यत्र प्रकृतर्मिनिष्ठव्यवहारोपि प्रकृताप्रकृतानुगतश्लेषादिसिद्धमधुरविशेषणमात्रमहिन्ना ह्यप्रकृतनिष्ठत्वारोपवानेव परिस्फुरति तवं समासोक्तित्वमिति तत्सामान्यलक्षणं पर्यवस्यति । अत्र पद्मिनीं पश्यपश्येत्यादौ शब्दशक्तिमूलध्वनावतिव्याप्तिव्यावृत्तये मात्रेति । तत्र विशेषस्यापि श्लेषेण नायिकादेर्भानात् । इह तु विशेषणैकोपस्थापितव्यवहारमात्रस्यैवाप्रकृतनिष्टत्वेन भानविषयताया इष्टवाच । एतेन श्लेषाप्रस्तुतप्रशंसे अपि व्याख्याते । 'कलावते नमः स्तस्मै यत्पादैः शारदागमः । स्फुटीभवति लोकानां सर्वेषामपि निर्मलैः' इति मदीयनीतिशतपत्रपद्ये-'मलिनेऽपि रागपूर्णां विकसितवदनामनल्पतपेऽपि ।