SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । 1 सहोक्तिः स्यागुणादित्वावच्छिन्नोऽस्यार्थसंश्रयः । सहोरोजयुगेनैव मुग्धाया ऐधत स्मरः ॥ १७७॥ विनार्थस्य तु संबन्धो विनोक्तिश्चारुतादिकृत् । सत्यौद्धत्यं विना विद्याश्रीरश्रीः सायं विना ॥ १७८ ॥ रेकध्वनितातिपूज्यत्वसूचनार्थमेव । यथावा रसगङ्गाव रे - ' अनिशं नयनाभिरामया रमया संमदिनो मुखस्य ते । निशि निःसरदिन्दिरं कथं तुलयामः कलयापि पङ्कजम्' इति । तत्रैव । यथावा - ' कटु जल्पति कश्चिदल्पवेदी यदि चेदीदृशमत्र किं विदध्मः । कथमिन्दुरिवाननं त्वदीयं सकलङ्कः स कलङ्कहीन मेतस् इति । यथावा – 'कतिपय दिवसविलासं नित्यसुखासङ्गमङ्गलसवित्री । खर्वयति स्वर्वासं गीर्वाणधुनीतटस्थितिर्नितराम्' । किंच - 'महेन्द्रतुल्यं कवयो भवन्तं वदन्तु किं तानिह वारयामः । भवान्त्सहस्रैः समुपास्यमानः कथं समानस्त्रिदशाधिपेन' । अपिच- 'निशाकरादालि कलङ्क पङ्किलागुणाधिकं निर्मलमाननं ते । अनल्पमाधुर्यविरोधिरादिमा गिरो धरो गुप्तरसाः कवीनाम्' इति ॥ १७६ ॥ एवं व्यतिरेकालंकारं निरूप्योपमेय उपमानापेक्षया गुणाधिक्यसाहित्यलक्षणतत्स्वरूपघटनस्मृतां सहोक्ति लक्षयति — सहोक्तिरित्यर्धेन । अस्य वक्ष्यमाणत्वेन बुद्धिस्थस्य सहपदार्थस्येत्यर्थः । गुणादीति । आदिना प्रधानम् । तथाच गुणप्रधानभावविशिष्ट इत्यर्थः । अर्थेति । एतादृशः पदार्थयोः सुन्दरः संबन्धः इत्येतत् सहोक्तिः स्यादित्यन्वयः । एवंच सहशब्दार्थस्य गुणप्रधानभावविशिष्टः पदार्थयोः सुन्दरः संबन्ध एव सहोक्तिरिति तल्लक्षणं फलति । अत्र सार्धं साकं सममिति सहशब्दपर्यायसंग्रहार्थमर्थेति । एवं पुत्रेण सहागतः पितेति लोकवाक्येऽतिप्रसङ्गभङ्गार्थं सौन्दर्यावबोधकं सपदं मूल इति ज्ञेयम् । तदुक्तं रसगङ्गाधरे — 'गुणप्रधानभावावच्छिन्न सहार्थ संबन्धः सहोक्तिः' इति । तामुदाहरति — सहेत्यर्धेनैव । मुग्धायाः नवोढायाः । उरोजेति । स्तनद्वयेन सहैवेति यावत् । स्मरः कामः मुग्धाया इत्यत्रापि देहलीदीपन्यायेन संबध्यते । ऐधत ववृध इति संबन्धः । यथावा सरस्वतीकण्ठाभरणे - 'कोकिलालापमधुराः सुगन्धिवनवायवः । यान्ति सार्धं जनानन्दैर्वृद्धिं सुरभिवासरा:' इति । इयं मालारूपापि । यथा साहित्यदर्पणे - 'सह कुमुदकदम्बैः काममुल्लासयन्तः सह घनतिमिरौघै धैर्यमुत्सादयन्तः । सह सरसिजषण्डैः स्वान्तमामीलयन्तः प्रतिदिशममृतांशोरंशवः संचरन्ति' इति । यथा रसगङ्गाधरे - 'मान्थर्यमाप गमनं सह शैशवेन रक्तं सहैव मनसाऽघर बिम्बमासीत् । किंचाभवन्मृगकिशोरदृशो नितम्बः सर्वाधिको गुरुरयं सह मन्मथेन' । तत्रैव यथावा – 'उन्मूलितः सह बलेन बलाद्बलारेरुत्थापितो बलभृतां सह विस्मयेन । नीलातपत्रमणिदण्डरुचा सहैव पाणौ धृतो गिरिधरेण गिरिः पुनातु' । विस्तरस्तु तत्रैव ज्ञेय इति संक्षेपः ॥ १७७ ॥ एवं संबन्धविशेषरूपसहोक्तिप्रसक्तां विनोक्तिं लक्षयति - विनेति । ૪૪૨
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy