________________
साहित्यसारम् ।
[ उत्तराधे णादिप्रसङ्गे कोशवियुक्तोऽपि दृष्ट एव कृपणस्तु मरणोत्तरमपि ब्रह्मग्रहत्वेन को रौकनिषण्ण इति तत्राप्युपमेयाधिक्यमेव । तद्वत्कृपाणस्य भस्मस्नेहादिभिरुज्ज्वलीकरणात्कदाचिन्नैर्मल्यमप्युपलभ्यत एव कृपणस्य तु न क्वचिदपि तद्रस्त्रादिक्षालने रजकादिदेय वित्तव्ययभियेति । तस्मात्किं कृपणस्य कृपाणस्य च केवलं आकारतः आकृतिवशादेव पक्षे दीर्घाकारयोगादेव भेदः किंतु भूयान्भेदः प्रोक्तरीत्येत्युपमेयोत्कर्ष एव । एतेन यद्रसगङ्गाधरे यदपि कुवलयानन्दकृता अलंकार सर्वस्वकारार्थानुवादकेन न्यूनतायामुदाहृतम् ' रक्तस्त्वमित्यादि सशोकत्वेन शोकाधिक्यादुपमेयापकर्षः पर्यवस्यतीति ' तदपि चिन्त्यम् । रत्याद्यनुकूलतया कुतश्चिदङ्गाद्भूषणापसारणं यथा शोभाविशेषाय भवत्येवं प्रकृते उपमालंकार दूरीकरणमात्रमेव रसानुगुणतया रमणीयं च व्यतिरेक इत्यादिदूषणमुक्तं तत्प्रत्युक्तम् । निरुक्तरीत्योपमेयोत्कर्षाद्रसातिपरिपोषाच्च । एवं तत्रैव च यदुक्तम् । यदपि कुवलयानन्दे अनुभयपर्यवसायिनो व्यतिरेकस्योदाहरणमुक्तं दृढतरेत्यादि तत्र निपुणं निरीक्षितमायुष्मता । तथाहि । किमत्रोपमानादुत्कर्षरूपो व्यतिरेकोऽनुभयपर्यवसायी आहोखित्सर्वस्वकाराद्युक्तदिशापकर्षरूपः । नाद्यः । उत्कर्ष प्रयोजकधर्मस्यात्रानुपस्थितेः । नच श्लेषेण दीर्घाक्षरस्योपस्थितिरस्त्येवेति वाच्यम् । तस्योपमानवृत्तित्वेनोपमेयानुत्कर्षकत्वात् । अर्थान्तरेणाकृतिरूपेण सह श्लेषमूलका भेदाध्यवसायेन साधारणीकरणाच्च । अन्यथा श्लेषमूलकोपमोच्छेदापत्तेः । चन्द्रबिम्बमिव नगरं सकलङ्कमित्यादावपि कलङ्कसहितत्व कलासाकल्ययोर्वस्तुतो वैधर्म्यरूपत्वात् । नच सकलङ्कमित्यत्रोपमायामेककवेर्निर्भरः । प्रकृते तु भेदशब्दोक्त्या वैलक्षण्ये स इति भ्रमितव्यम् । यद्यत्रोपमाविघटनरूपो व्यतिरेको निर्भरसहः स्यादाकारशब्दश्लेषोनर्थकः स्यात् । कृपणस्य कृपाणस्य भेदो दीर्घाक्षरादेवेत्येव ब्रूयात् । नह्यत्र व्यतिरेके श्लेषोऽनुकूलः प्रत्युत प्रतिकूल एव । उपमायां पुनरनुकूलः प्रतिकूलस्य दीर्घाक्षररूपवैधर्म्यस्य साधारणीकरणात् । आकृतिभेदस्य चोपमानोपमेययोरपि स• त्वात् । एवं हि कवेराशयो यत्कृपणकृपाणयोस्तुल्यतैव गाढतरेत्यादिविशेषणसाम्यात् । अक्षरभेदस्त्वाकारभेदत्वादविरुद्ध एवेति सहृदवैराकलनीयम् । न द्वितीयः । तस्योक्तिमात्रेणाप्यसंगतेः । अहृद्यत्वाच्च । तस्मादत्र गम्योपमैव सुप्रतिष्ठितेत्यास्तां कूटकार्षापणोद्घाटनमिति तदपि निरुक्ततत्पदतात्पर्यनिरूपणेनैव परास्तम् । यद्युकरीत्या दृढतरेत्यादिविशेषणेषु व्यतिरेकसंभवो न स्यात्तदा स्यादेवात्र गम्योपमापि । तस्य तु स्फुटमेव प्रदर्शितत्वादर्थपरिपोषस्य मदुक्तरीत्योपमेयोत्कर्षाघायकव्यतिरेकपक्षे भूरिसत्वमुत गम्योपमापक्ष इति ध्वनिधुरंधरैर्विबुधवरैरेवाप क्षपातैः सशपथं वक्तव्यत्वाच्च । तस्मात् श्रीमदप्पय्यदीक्षितसार स्यानवबोधनिबन्धनमेवोक्तखण्डनविडम्बन मिति दिक् । यथावा गोवर्धन सप्तशत्याम् - 'गौरीपतेर्गरीयो गरलं गत्वा गलेजीर्णम् । जीर्यति कर्णे महतां दुर्वादो नाल्पमपि विशति' इति । अत्र महतामिति बहुवचनं नाल्पमपीत्यादिना सूचितोपमेयोत्कर्षरूपव्यति
४४२