SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४४१ कौस्तुभरनम् ८] सरसामोदव्याख्यासहितम् । क्यतदर्थविचारोपदेशस्य साक्षाजनकत्वाभावः कैमुत्यसिद्ध एवेति भावः । एतादृशः अतएव ईशः परमेश्वरः क्व आप्नुयात् । क्वशब्द आक्षेपे। नैव प्राप्नुयादित्यन्वयः । अत्रोपमानात्परोक्षादीश्वरादुपमेये श्रीगुरौ अपरोक्षत्वापरोक्षज्ञानदातृत्वादिगुणैरुत्कटत्ववर्णनसत्वालक्षणसंगतिः । यथावा काव्यप्रकाशादौ-क्षीणः क्षीणोऽपि शशी भूयोभूयोऽभिवर्धते नितराम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु' इति । अत्रोपमानीभूतात् भूयः क्षीणत्वेपि पुनः पुनरभिवर्धमानत्वेन सुलभशोभाच्छशिनः सकाशादुपमेये यौवनेऽनिवर्तित्वेन दुर्लभत्वध्वननादाधिक्यसत्वेन लक्षणसमन्वयः । एवमेव वक्ष्यमाणोदाहरणेष्वपि तत्रतत्र बोध्यम् । यथावा तत्रैव-'इयं सुनयना दासीकृततामरसत्रिया। आननेनाकलङ्केन निन्दतीन्दु कलंकिनम् ' इति । यथावा कुवलयानन्दे–'पल्लवतः कल्पतरोरेष विशेषः करस्य ते वीर । भूषयति कर्णमेकः परस्तु कर्ण तिरस्कुरुते' इति। एवमयमुपमेयाधिक्यप. र्यवसायी व्यतिरेक इति ग्रन्थेन 'व्यतिरेको विशेषश्चेदुपमानोपमेययोः । शैला इवोबताः सन्तः किंतु प्रकृतिकोमलाः' इति वकृतकारिकानुगुणं खसंमतमुपमेयाधिक्यपर्यवसायिनं व्यतिरेकमुदाहृत्याने अलंकारसर्वस्वकारादिमतरीत्यैव यथाश्रुतग्राहिणां तावदुपमेयन्यूनत्वतत्साम्यप्रतिपादकं वस्तुतस्तु प्रेक्षावतां दृशोकखसंमतोपमयोत्कर्षमात्रपर्यवसायि व्यतिरेकोदाहरणद्वयमुक्तम् । तद्यथा-'रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणैस्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्व तुल्यमशोक केवलमहं धात्रा सशोकः कृतः' इति । अत्र यथाश्रुते ह्युपमेयन्यूनवं स्पष्टमेव तथापि सकृदेव कान्तापादतलाहतिस्तव मुदे संपन्ना तावतैव तव लोके ह्यशोकत्वेन ख्यातिरभूत्परंतु तदुत्तरं तदालिङ्गनादि बहिःसंभोगस्यापि तवाभाव एव सर्वथा वर्तते किं पुनरन्तःसंभोगे वक्तव्यम् । एवं मम तु नास्त्येव किंतु प्राग्यथेच्छं सबाह्याभ्यन्तरसंभोग एव कान्तायाश्चिरकालं समभूदिदानीं तु किंचित्कालं दैवप्रातिकूल्येन तद्वियोगेपि भाविभूरितद्योगसंभावनसत्वेऽप्यहं रसज्ञचक्रवर्तित्वेन तावतैव शोचामि वं तु तदुभयाभावेऽपि क्षणिकतत्पादस्पर्शानुभूतविपुलसुखत्वे. नाशोकत्वख्यातिमात्रेणैव जडत्वेन शोकशतसंभावनायामपि न शोचसीति त्वय्येव न्यूनत्वं मदपेक्षयेति सूक्ष्मतमविचारे तूपमेयाधिक्यमेव पर्यवस्यति सहृदयधौरे. याणां तद्वत् चरमोदाहरणमपि । यथावा-'दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो भेदः' इति । अत्रापि न वास्तविकमनुभयपर्यवसायिलं किंतु यथाश्रुतग्राहिणः कस्यचिदलंकारसर्वखकारादिवन्मत एव तत् । वस्तुतस्तूपमेयाधिक्यपर्यवसाय्येवेदमपि । तथाहि अत्रोपमा. नीभूते कृपाणे तावत्कदाचिद्रणाङ्गणे महावीरकरगतत्वेन करिवरदन्तदलनप्रसङ्गा. घाते मुष्टिविनिर्मोकः संभाव्यत एव परंतूपमेये कृपणे प्राणान्तेपि वितरणप्रावण्यलक्षणोऽसौ खप्नेऽपि नैव संभाव्यत इति तस्यैवोत्कर्षः । एवं कृपाणः कदाचिद्र
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy