________________
४४०
साहित्यसारम् ।
[उत्तरार्धे व्यतिरेको गुणैः श्लाघोपमेय उपमानतः ।
द्वैतघाचार्य ते साम्यं परोक्षः क्वेश आप्नुयात् ॥ १७६ ॥ र्वन्नित्यन्वयः । इदं हि सदर्थोपदेशनिदर्शनाया एवोदाहरणम् । हार इति मुक्तावलीविशेषः । गुर्विति गुरुं उल्लङ्घयति तच्छील इत्यर्थः । पतेदवश्यमधःपातं प्रामुयादेवेति सूचयन्सन् संमर्दात् । दंपत्योः परस्परं गाढालिङ्गनसंघर्षाद्धतोरित्यर्थः । त्रुटति विच्छिद्यत इति संबन्धः । सहि गुरुपदशक्यपृथुलयोः कुचयोरुपरिस्थित्या तदतिक्रमणेन मध्यपर्यन्तगत्या च गुरूलङ्घनशीलो भवाम्यतः संमर्दादुक्तरूपाद्विच्छिद्य पताम्येव तद्वदन्योऽपि कश्चिद्गुरुशब्दवाच्याचार्यादिपूज्योल्लङ्घनं करिष्यति चेद्विच्छिद्याधः पतिष्यत्येवेति खासाधुफलकक्रियया तद्वर्जनार्थमस्मदादीन्प्रति बोधयत्येवेति भावः । इदं तावद्धानार्थमसदर्थोपदेशनिदर्शनाया अप्युदाहरणम् । यथावा काव्यप्रकाशे-'चूडामणिपदे धत्ते यो देवं रविमागतम् । सतो कार्यातिथेयीति बोधयन् गृहमेधिनः' इति । यच्छब्दात्स उदयाचले ज्ञेय इत्यर्थः । यथावा साहित्यदर्पणे-'कोत्र भूमिवलये जनान्मुधा तापयन्सुचिरमेति संपदम् । वेदयनिति दिनेन भानुमानाससार चरमाचलं ततः' इति । यथावा कुवलयानन्दे–'अपराम्बोधनं प्राहुः क्रिययाऽसत्सदर्थयोः । नश्येद्राजविरोधीति क्षीणं चन्द्रोदये तमः। उदयन्नेव सविता पद्मेष्वर्पयति श्रियम् । विभावयन्समृद्धीनां फलं सुहृदनुग्रहम्' इति । यथावा रसगङ्गाधरे--'उन्नतं पदमवाप्य यो लघुलीलयैव स पतेदिति ध्रुवम् । शैलशेखरगतः पृषत्कणश्चारुमारुतधुतः पतत्यधः' इति मंमटभट्टपद्यमुदाहृत्य 'हालाहलं खलु पिपासति कौतुकेन कालानलं परिचुचुम्बि. पति प्रकामम् । व्यालाधिपं च यतते परिरब्धुमद्धा यो दुर्जनं वशयितुं कुरुते मनीषाम्' यथावा । 'व्योमनि बीजाकुरुते चित्रं निर्माति सुन्दरं पवने । रचयति रेखाः सलिले यस्तु खले चरति सत्कारम् ।' बीजाकरणं बीजप्रक्षेपपूर्वकं कर्षणमिति । 'यान्ती गुरुजनैः साकं स्मयमानाननाम्बुजा। तिर्यग्ग्रीवं यदद्राक्षीत्तनिपत्राकरोजगत्' निष्पत्राकरणं सपुङ्खशरस्य परपार्श्वे निर्गमनात्पत्रराहित्यकरणमिति । विस्तरोऽत्र तत्रैव ज्ञेयः ॥ १७५ ॥ एवं निरूपितनिदर्शनालंकारलक्षणनिविष्टौपम्यपर्यवसायित्वप्रसङ्गसंगतमुपमानापेक्षयोपमेयाधिक्यपर्यवसायिनं व्यतिरेक लक्षयति-व्यतिरेक इति । उपमानतः उपमानापेक्षया उपमेये वर्ण्यत्वेन प्रकृते वस्तुनीत्यर्थः । गुणैः तत्तदुपयुक्तधमः श्लाघा औत्कट्यवर्णना व्यतिरेक एतन्नामकोऽलंकारो भवतीति संबन्धः । तदुक्तं रसगङ्गाधरे-'उपमानादुपमेयस्य गुणविशेषवत्त्वेनोत्कर्षों व्यतिरेकः' इति । प्रतीपादिव्युदासाय तृतीयान्तं वैधर्म्यपरमिति च । तदुदाहरति-द्वैतेति । द्वैतं हन्तीति तत्संबुद्धावित्यर्थः । अये ब्रह्मास्मैक्यप्रबोधद्वारा दृश्यनाशकेति यावत् । एतेन वक्ष्यमाणार्थे हेतुर्योतितः । एतादृश आचार्य वेदविद्यादिदेशिकेश्वर, ते तव साम्यं तौल्यम् । परोक्षः खभावादेव खयमपि यः परोक्षः पश्चात्तत्रापरोक्षाद्वैतब्रह्मात्मैक्यविद्यायास्तत्त्वमस्यादिमहावा