________________
कौस्तुभरत्नम् ८ ]
सरसामोद व्याख्यासहितम् ।
सरो त्वदपाङ्गोऽद्य नः सुधाब्धितरङ्गकः । सदादिबोधनं चेत्स्यात्क्रियया तन्निदर्शना ॥ १७४ ॥ पात्रे वाक्लफलेत्यूचुः सुरभावेव कोकिलाः । हारस्रुटति संमर्दागुरुलङ्घी पतेदिति ॥ १७५ ॥ विवरान्तरालैः' इति । अतएव वाक्यार्थनिदर्शनायां काव्यप्रकाशकृतोदाहृतम्'क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुदुस्तरं मोहादुडुपेनास्मि सागरम्' इति । एवं तर्हि मह्रिखितनिरुक्त कुवलयानन्दोदाहरणेऽरण्येत्यादिरूपे यदबुधो जनः सेवित इति यच्छन्दो हेत्वर्थ एवास्तु । तथाचात्रापि पये आर्थिकाभेदान्निप्रत्यूहमेव निदर्शनाया वाक्यार्थगाया उदाहरणत्वमिति दिकू । अतएव तत्राग्रे वाक्यार्थनिदर्शनाऽन्यथैवोदाहृता । ' त्वयि सति शिवदातर्यस्मदभ्यर्थितानामितरमनुसरन्तो दर्शयन्तोऽर्थिमुद्राम् । चरमचरणघातैर्दुर्ग्रह दोग्धुकामाः करभमनुसरामः कामधेनौ स्थितायाम् ' । तथा 'राजसेवा मनुष्याणामसिधारावलेहनम् । पञ्चाननपरिष्वङ्गो व्यालीवदनचुम्बनम्' इति । विस्तरस्तु तत्र तट्टीकायामलंकारचन्द्रिकायां चेक्ष्य इति ॥ १७३ ॥ एवं वाक्यार्थनिदर्शनामुदाहृत्याथ क्रमप्राप्तां पदार्थनिदर्शनामप्युदाहरति - सद्गुरो इत्यर्धेन । अये श्रीमद्देशिकेश्वर, अद्य मृगजलवन्मिथ्यात्वेनावभासमानदृश्यदशायामपीत्यर्थः । त्वदपाङ्गः भावत्कानुकम्पाकटाक्षः नः अस्माकं सुधेति अमृतसमुद्रतरङ्ग एव भवतीत्यर्थः । यथावा कुवलयानन्दे—'पदार्थवृत्तिमप्येके वदन्त्यन्ये निदर्शनाम् । त्वन्नेत्रयुगुलं धत्ते लीलां नीलाम्बुजन्मनो:' इति । यथावा रसगङ्गाधरे - ' अगण्यैरिन्द्राद्यैरपि परमपुण्यैः परिचितो जगज्जन्मस्थानप्रलयरचना शिल्पनिपुणः । प्रसर्पत्पीयूषाम्बुधिलहरिलीलाविलसितो दृगन्तस्तेऽमन्दं मम कलुषवृन्दं दलयतु' । अत्र दृगन्ताम्बुधिलहर्योराश्रयभेदाद्भिन्नयोरपि सादृश्यमूलस्ताद्रूप्याभिमानः । आरोपो वा दृगन्ते लहरिलीलायाः। यथावा –‘पाणौ कृतः पाणिरिलासुतायाः सखेदकम्पो रघुनन्दनेन । हिमाम्बुमन्दानिलविह्वलस्य प्रभातपद्मस्य बभार शोभाम्' इति । अस्यां चोपमानोपमेययोरार्थाभेदप्रतिपत्तिरतः पदार्थनिदर्शनोच्यते । बिम्बप्रतिबिम्बभाववस्तूपमानोपमेययोः सविशेषणे भवत्यन्यथा तु नेति विवेक इत्यपि तत्रैवाग्र उक्तम् । तेन मामके प्रकृतोदाहरणे यमृतसमुद्रतरङ्गस्योपमानस्योपमेयेन श्रीगुर्वपाङ्गेन सहाभेदप्रतिपत्तिरार्थैवेति लक्षण संगतिः । अथ बोधननिदर्शनां लक्षयति-सदादीत्यर्धेनैव । यदि सदादिबोधनं साध्वसाध्वर्थयोः क्रमादुपादानार्थे हानार्थ च बोधनमन्यान्प्रत्युपदेशनं क्रियया अप्रस्तुतकर्तृनिष्ठ व्यापृत्येत्यर्थः । स्याच्चेत्तर्हि तन्निदर्शना वोधननिदर्शना भवतीति योजना ॥ १७४ ॥ द्विविधामपि तां क्रमेण पूर्वोत्तरार्धाभ्यामुदाहरति - पात्र इत्यादिना । पात्रे उपदेशयोग्यतापन्नेऽधिकार्येकस्थल इत्यर्थः । वाक् हितोपदेशवाणीति यावत् । सफला भवति नत्वन्यत्रेति . लोकान्बोधयितुमेव कोकिला: पिकाः सुरभौ वसन्ते सत्येव ऊचुः कलालापमकु
-
४३९