________________
साहित्यसारम् ।
[ उत्तरार्धे
सर्वत्र भान्तमानन्दं हित्वा कान्तारता वयम् । करस्थममृतं त्यक्त्वा लिहामो निम्बमृत्तिकाम् ॥ १७३ ॥ नास्रामान्यक्षणं फलति । तथाचोक्तं रसगङ्गाधरे — ' उपात्तयोरर्थयोरार्थभेद औपम्यपर्यवसायी निदर्शना' इति । तद्भेदावाह – सेत्यर्धेनैव । एका वाक्यार्थनिदर्शना अपरा पदार्थनिदर्शनेति बोध्यम् ॥ १७२ ॥ तत्राद्यामुदाहरतिसर्वत्रेति । वयं सर्वत्र यावद्देशकालवस्त्ववच्छेदेनेत्यर्थः । भान्तं खप्रकाशत्वेन परिस्फूर्यमाणतया सकलखारोपितद्वैतसत्ताप्रकाशप्रदातृतया च निरन्तरं प्रकाशमानमपीत्यर्थः । एतादृशमानन्दं अद्वैतसच्चिदानन्दमपीति यावत् । हित्वा हि विषयाखादसंस्कारप्राबल्यादनादृत्येर्थः । कान्तेति । रमणीरसाखादमोदलम्पटा इत्येतत् करस्थमिति हस्ततलप्राप्तमपीत्यर्थः । अमृतं पीयूषं त्यक्त्वा विहाय । निम्बेति पारिभद्रतलमृदमित्यर्थः । लिहाम आखादयाम इति संबन्धः । अत्र पूर्वोत्तरार्धगतत्वेनोपात्तयोर्वाक्यार्थयोरौपम्यपर्यवसायी आर्थिक एव भेदो नतु शाब्दिक इति निदर्शनाया वाक्यार्थगाया लक्षणसमन्वयः स्पष्ट एवेति भावः । यथावा साहित्यदर्पणे - 'जन्मैव व्यर्थतां नीतं भवभोगप्रलोभिना । काचमूल्येन विक्रीतो हन्त चिन्तामणिर्मया' इति । यथावा कुवलयानन्दे - ' अरण्य - रुदितं कृतं शवशरीरमुद्वर्तितं स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम् । श्वपुच्छमवनामितं बधिरकर्णजापः कृतो धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः' इति । नन्विदं कुवलयानन्दीय निदर्शनोदाहरणमनुचितं श्रीमदप्पय्यदीक्षितैरलंकारसर्वस्वकाररीत्यैव लिखितत्वात्तस्य तु रसगङ्गाधरकृद्भिरीदृशस्थले वाक्यार्थरूपकमेव स्त्रीकुर्वद्भिः खण्डितत्वात् । तद्यथा रूपकप्रकरणे तावत् एवं पदार्थरूपकं लेशतो निखपितम् । एवं वाक्यार्थे विषये वाक्यार्थान्तरस्यारोपे वाक्यार्थरूपकम् । यथाहि विशिष्टोपमायां विशेषणानामुपमानोपमेयभाव आर्थस्तथात्रापि वाक्यार्थघटकानां पदार्थानां रूपकमार्थमवसेयम् । 'आत्मनोऽस्य तपोदानैर्निर्मलीकरणं हि यत् । क्षालनं भास्करस्येदं सरसैः सलिलोत्करैः' इत्यादिप्रतिपाद्य निदर्शनाप्रकरणेऽत्र । अलंकारसर्वस्वकारस्तु 'त्वत्पादनखरत्नानां यदालक्तकमार्जनम् । इदं श्रीखण्डले पेन पाण्डुरीकरणं विधोः' इति पद्यं वाक्यार्थनिदर्शनायामुदाजहार । आहच यत्रतु प्रकृतवाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र संबन्धानुपपत्तिमूला निदर्शनैव युक्तेति । तन्न । वाक्यार्थरूपकस्य दत्तजलाञ्जलित्वापत्तेः । नचेष्टापत्तिः । वाक्यार्थनिदर्शनैव निर्वास्यतां स्वीक्रियतां च वाक्यार्थरूपकमिति पर्यनुयोगस्यापि तुल्यत्वात् । अस्मदुक्तोदाहरणे वाक्यार्थनिदर्शनायाः सावकाशत्वादित्याद्युक्तम् । तदुदाहरणं यथा - ' त्वामन्तरात्मनि लसन्तमनन्तमज्ञास्तीर्थेषु हन्त मदनान्तक शोधयन्तः । विस्मृत्य कण्ठतटमध्यपरिस्फुरन्तं चिन्तामणि क्षितिरजःसु गवेषयन्ति' । तत्रैव यथावा - ' अन्यैः समानममरैर्जगदन्तरात्मन्ये चन्द्रशेखर वदन्ति भवन्तमज्ञाः । ते किं न हन्त तुलयन्ति नभो निरन्तं वातायनोदरगतौ
૪૮