________________
कौस्तभरत्नम् ८] सरसामोदव्याख्यासहितम् । ४३७
सहुरो त्वामृते त्राता को नः संकटकोटितः । नहि पद्माकरं फुल्लीकत सूर्येतरः क्षमः॥१७१॥ अभेद आर्थ एवौपम्यावसायी निदर्शना।
सा वाक्यार्थपदार्थत्वभेदेन द्विविधेष्यते ॥ १७२॥ अत्र लोके । चन्द्रः चकोरार्थे चकोराणां खोदयअपश्चितचद्रिकाखादनजनिततृप्तिलक्षणपुरुषार्थविषय इत्यर्थः । कैः पुरुषैरर्थितः प्रार्थितो भवति । नैव कैश्चिदप्यभ्यर्थितः । किंतु खभावादेव यथा चकोरान्सतर्पयति तथा प्रकृतसाधुरपि खभावादेव निरुक्तरीत्या विश्वं पालयतीत्याशयः । एवंचेहार्थिकोपमानीभूतचन्द्रचकोरतत्संतर्पणैस्तादृशोपमेयीभूतानां साधुजगत्परिपालनानां बिम्बप्रतिबिम्बभावा. प्रकृतवाक्यार्थानुकूल्याच्च लक्षणसंगतिः । यथावा काव्यप्रकाशे-'त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् । आलोके हि हिमांशोर्विकसति कुमुदं कुमुद्वत्याः' इति । यथावा साहित्यदर्पणे वासवदत्तायाम्-'अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् । अनधिगतपरिमलापि हि हरति दृशं मालतीमाला' इति । यथावा कुवलयानन्दे अनर्घराघवे-'देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः । अब्धिलंचित एव वानरभटैः किं त्वस्य गम्भीरतामापातालनिममपीवरवपुर्जानाति मन्थाचलः' इति । यथावा रसगङ्गाधरे-'सत्पुरुषः खलु हिताचरणैरम. न्दमानन्दयत्यखिललोकमनुक्त एव । आराधितः कथय केन करैरुदारैरिन्दुर्विकासयति कैरविणीकुलानि' इति ॥ १७० ॥ एवं साधये॒णोदाहृत्य वैधयेणापीममुदाहरति-सहुरो इति । अक्षरार्थस्तु सरल एव । अत्र संकटकोटेः सकाशात्राणस्य खप्रतियोगिकसद्गुरुकर्तृकस्य स्वकर्मकस्य परिरक्षणस्य सूर्येतरासाध्यपद्माकरफुल्लीकरणस्य च वैधय॒णैव बिम्बप्रतिबिम्बभावः । यथावा साहित्यदर्पणे-'त्वयि दृष्टे कुरङ्गाक्ष्याः स्रंसते मदनव्यथा । दृष्टानुदयभाजीन्दौ ग्लानिः कुमुदसंहतेः। यथावा कुवलयानन्दे-'कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नो द्विषः । तमांसि तिष्ठन्ति हि तावदंशुमान यावदायात्युदयाद्रिमौलिताम्' इति । यथावा रसगङ्गाधरे तापत्रयं हृदि नृणां खलु तावदेव यावन्न ते चलति देव कृपाकटाक्षः । प्राचीललाटपरिचुम्बिनि भानुबिम्बे पङ्केरुहोदरगतानि कुतस्तमांसि' इति । यथावा मदीयायामद्वैतामृतमञ्जर्याम्-'अनुभूतचित्वरूपानन्दो. तैवोपदेशवाक्फलति । नहि दर्शयितुं क्षमते जन्मान्धश्चन्द्रमन्येभ्यः' इति ॥१७१॥ एवं दृष्टान्तनिरूपणप्रयोजकप्रकृतेष्टोपमादिबिम्बप्रतिबिम्बभावप्रसङ्गसंगतां निदर्शनां सामान्यतो लक्षयति-अभेद इति । अत्र प्रकृतोपात्तार्थयोरित्यार्थिकम् । औषम्येति । औपम्य उपमेयोपमानभावः तत्र अवसायः पर्यवसानं यस्यास्तीति तथेत्यर्थः।एतादृशःआर्थः अर्थसंपन्नः नतु शब्दप्रतिपादितः ईदृश अभेद एव निदर्शनास्तीत्यन्वयः। एवंच प्रकृतोपात्तार्थयोरौपम्यपर्यवसायित्वे सत्यार्थिकाभेदत्वनिदर्श