SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ४३६ साहित्यसारम् । [ उत्तरार्धे धत्ते शीलं सती गङ्गा बिभर्ति जगदुद्धृतिम् । विद्या विनयमादत्ते कलयत्यब्जिनी श्रियम् ॥ १६९ ॥ दृष्टान्तः प्रकृतेष्टोपमादेर्बिम्बादिभावतः। साधुः पाति जगञ्चन्द्रश्चकोरार्थेऽर्थितोऽत्र कैः ॥ १७० ॥ नाद्यत्कृतं तदन्थखण्डनं अविडम्बनं तत् । 'तत्त्वं किमपि काव्यानां जानाति विरलो भुवि । मार्मिकः को मरन्दानामन्तरेण मधुव्रतम्' इति खल्लिखितपद्यपात्रता वय्येवादधाति । एवं 'तवामृतस्यन्दिनि पादपङ्कजे' इत्यादिद्वितीयोदाहरणदूषणनिराकरणमपि वक्तः' कवेर्भक्तिरसाविष्टचेतस्वलक्षणसमाधानेन तावकेनैव लयैव संपादनीयमिति तत्र निर्मत्सरैः सहृदयैर्मध्यस्थैरेव समाधेयमिति दिक् ॥ १६८ ॥ इदानीं मालारूपामपि तृतीयां प्रतिवस्तूपमामुदाहरति-धत्त इति । सती शीलं सद्वृत्तं धत्ते । तथा गङ्गा जगदुद्धृतिं बिभर्ति । एवं विद्या विनयमादत्ते तद्वत् अब्जिनी श्रियं कलयतीति चतुर्णामप्याख्यातानां शब्दभेदेऽप्यर्थस्य सार्वदिकावलम्बनलक्षणस्यैक्याद्वस्तुप्रतिवस्तुभावापनसाधारणधर्ममूलकार्थबहुवाक्यार्थ. गतोपमानोपमेयभावेन मालारूपप्रतिवस्तूपमानत्वमत्र स्पष्टमेवेति भावः। इह प्रकृतायाः कस्याश्चित्पतिव्रताया एवोपमेयत्वं गङ्गादीनां तूपमानत्वमेवेति ज्ञेयम् । तेन तस्यां सदयत्वसदसद्विवेकित्वसुरूपत्वान्यपि क्रमात्सूच्यन्ते । यथावा रसगङ्गाधरे-'वहति विषधरान्पटीरजन्मा शिरसि मषीपटलं दधाति दीपः । विधुरपि दधतेतरां कलङ्क पिशुनजनं खलु बिभ्रति क्षितीन्द्राः' इति ॥ १६९ ॥ अथ प्रतिवस्तूपमाप्रतिपादनार्थिकौपम्यसाधर्म्यप्रसङ्गसंगतं दृष्टान्तालंकारं लक्षयति-दृष्टान्त इत्यर्धेन । प्रकृतः वस्तुतस्तस्येष्टोऽनुकूलः यः उपमादिरादिनासाधारणधर्मः तस्येत्यर्थः । बिम्बादिभावतः । बिम्बप्रतिबिम्बभावादित्यर्थः । दृष्टान्तः दृष्टान्तालंकारो भवतीति शेषः । एवंच प्रकृतवाक्यार्थानुकूलोपमानोपमेयसाधारणधर्माणां बिम्बप्रतिबिम्बत्वं दृष्टान्तत्वमिति तत्सामान्यलक्षणं फलि. तम् । तदुक्तं रसगङ्गाधरे-'प्रकृतवाक्यार्थघटकानामुपमानादीनां साधारणधर्मस्य च बिम्बप्रतिबिम्बाभावे दृष्टान्तः' इति । इदमेव प्रतिवस्तूपमायाः स्वस्य भेदकं योयमत्र बिम्बप्रतिबिम्बभावः । एतदप्युक्तं तत्रैव । अस्य चालंकारस्य प्रतिवस्तूपमया सह भेदकमेतदेव तस्यां धर्मो न प्रतिबिम्बितः किंतु शुद्धसामान्यात्मनैव स्थितः । इह तु प्रतिबिम्बित इति । तमुदाहरति-साधुरित्यर्धेनैव । साधुर्भगवद्भक्तः । जगद्विश्वं पाति प्रतिक्षणमीश्वरं प्रति वक्ष्यमाणलक्षणप्रार्थनया परितुष्टपरमेश्वरप्रसादद्वारा परिरक्षतीत्यर्थः । तथाचोक्तं भागवते श्रीनृसिंहं प्रति प्रह्लादवचनम्-'वस्त्यस्तु विश्वस्य खल: प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया । मनश्च भव्यं भजतामधोक्षजे आविश्यतां नो मतिरप्यहैतुकी' इति । ननु ब्रह्मविद्यया कृतकृत्योप्ययं किमित्येवमीश्वरप्रार्थनमहरहरनुतिष्ठतीयाशङ्का स्वभावादेवेति समादधंस्तत्र दृष्टान्तं स्पष्टयति-चन्द्र इत्यादिशेषेण ।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy