________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । गुणैरुदारैर्यया समाकृष्यत नैषधोऽपि । इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति' । यथावा कुवलयानन्दे–'स्थिरा शक्तिर्गुणवतां खलबुद्ध्या न बाध्यते । रत्नदीपस्य हि शिखा वात्ययापि न नाश्यते' । तत्रैव-तवामृतस्पन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति । स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेचुरसं समीक्षते' इति । यथावा रसगङ्गाधरे-'आपद्गतः खलु महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदारभावम् । कालागुरुर्दहनमध्यगतः समंताल्लोकोत्तरं परिमलं प्रकटीकरोति'। तत्रैव 'विश्वाभिरामगुणगौरवगुम्फितानां रोषोऽपि निर्मलधियां रमणीय एव।लोकंपृणैः परिमले परिपूरितस्य कालागुरोः कठिनतापि नितान्तरम्या' इति। यथावा मदीयनीतिशतपत्रे-तृष्णयैवाखिला दोषास्तच्छित्यैवाखिला गुणाः । मोदाः सर्वे विद्ययैव शोकाः सर्वेऽप्यविद्यया' इति । अत्र सन्ति भवन्तीति पूर्वोत्तरार्धयोः क्रियाध्याहारेऽपि वस्तुप्रतिवस्तुभावापन्नसाधारणकर्मकवाक्यार्थयोरार्थिकौपम्यसत्वेन लक्षणसमन्वयः सुघट एवेति संक्षेपः । अथ वैधयेणापि तामुदाहरति-सत्सङ्गादेवेति । यथावा कुवलयानन्दे"विद्वानेव विजानाति विद्वज्जनपरिश्रमम् । नहि वन्ध्या विजानाति गुर्वी प्रसव. वेदनाम्' इति । यथावा रसगङ्गाधरे-'वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः । नहि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम्' । तत्रैव । यथावा --'गीर्भिर्गुरूणां परुषाक्षराभिस्तिरस्कृता यान्ति नरा महत्त्वम् । अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति' इति । यत्तु कुवलयानन्दोक्ते 'यदि सन्ति गुणाः पुंसां विकसन्येव ते खयम् । नहि कस्तूरिकाऽमोदः शपथेन विभाव्यते' इति द्वितीयवैधर्योदाहरणे रसगङ्गाधरकृद्भिः वैधोदाहरणं हि 'प्रस्तुतधर्मिविशेषोपारूढार्थदाक्य वाक्षिप्तखव्यतिरेकसमानजातीयस्य धर्म्यन्तरारूढस्याप्रकृतार्थकथनम्' इति तल्लक्षणमुक्त्वा प्रकृते च यदि सन्ति तदा स्वयमेव प्रकाशन्त इत्यर्थस्य प्रस्तुतस्य व्यतिरेकस्त्वसन्त उपायान्तरेणापि न प्रकाशन्त इति । नपत्र द्वितीयार्धेन तत्सजातीयोऽर्थों निबध्यते । निबध्यते च वयं प्रकाशन्ते न परेणेत्यस्य प्रस्तुतस्यैव सजातीयः शपथेन न विभाव्यते किंतु खयमेवेति प्रकृतार्थानुरूपतयैव पर्यवसानादित्यादिना निरुक्तोदाहरणखण्डनमुकम् । तथा 'तवामृतस्यन्दिनि पादपङ्कजे' इत्यादिकुवलयानन्दीयोदाहरणान्तरेऽपि 'स्थितोऽरविन्दे मकरन्दनिर्भरे' इति चेत्क्रियते तदा नु रमणीयमित्यन्तग्रन्थेन दूषणमुक्तं, तदुभयमपि सत्यमेव । तथापि प्रथमपद्ये तावत् कश्चित्प्रतारकः परिहासको वा कंचित्सरलं प्रति शपथपूर्वकं मनिकटे कस्तूरिका वर्तत इति वदन्नरे त्वन्निकटे कस्तूरिका नास्त्येव, कुतः । हिहेतौ । यस्माद्धेतोः कस्तूरिकाया अभावात्तदामोदोऽप्यसन् शपथाख्योपायान्तरेणापि नैवानुभाव्यतेऽन्यं प्रति ज्ञाप्यत इति केनचित्तटस्थेन प्रतिबोध्यत इति वदुक्तरीत्यैव वैधम्यादाहरणत्वं युक्तमेव । तस्मादेवंजातीयकस्य श्रीमदप्पय्यदीक्षितगूढाशयस्य त्वयैवानाकल