________________
साहित्यसारम् ।
[ उत्तरार्धे प्रतिवस्तूपमा वस्तुप्रतिवस्तुत्वमीयुषा । या साधारणधर्मेणैवार्थी वाक्यार्थगोपमा ॥ १६७ ॥ आत्मबोधाद्विमुक्तिः स्याद्भूयाद्भानूदयात्प्रभा ।
सत्सङ्गादेव धीः सियेच्छान्तिः क्वेन्दं विना स्फुरेत् १६८ अप्रकृतानामेव वा तथात्वमिति विशेषः । एवं तत्र गम्योप्यनयोरुपमानोपमेय. भावः परस्परमैच्छिक एवेह तु प्रकृतमेवोपमेयमप्रकृतं तूपमानमिति नियमः ॥१६६॥ एवं वावोभयधर्मैक्यदीपकनिरूपणप्रसङ्गसंगतामुभयवाक्यार्थंकसामान्यस्वरूपां प्रतिवस्तूपमां लक्षयति-प्रतिवस्तूपमेति । या । वस्त्विति । प्राक्साधारणधर्मनिरूपणावसरप्रपञ्चितवस्तुप्रतिवस्तुभावमित्यर्थः । एतादृशेन ।साधारणेति। आर्थी अर्थाद्गम्यमाना । वाक्येति।वाक्यार्थे गच्छतीति यथेति यावत्। ईदृशी उपमैव प्रतिवस्तूपमा भवतीति योजना । एवंच वस्तुप्रतिवस्तुत्वापन्नसाधारणधर्मकरणकार्थिकवाक्यार्थगोपमात्वं प्रतिवस्तूपमालंकृतिसामान्यलक्षणं पर्यवसन्नम् । अत्र 'यथा भाति मतिः शान्ते राजते श्रीस्तथा हरौ' इति वाक्यार्थीपमायामतिव्याप्तिव्यावृत्तये आर्थिकेति । तावन्मात्रोक्तौ 'धैर्यमेवामृतं पुंसि स्त्रियां मन्दाक्षमेव तत्' इति दृष्टान्तेऽतिप्रसङ्गः । एवमपि वक्ष्यमाणाप्रस्तुतप्रशंसायां तद्वारणाय वस्त्वित्यादिसाधारणधर्मविशेषणम् । तत्र भिन्नशब्दोपात्तैकप्रतिपाद्यत्वलक्षणवस्तुप्रतिवस्तुभावस्य साधारणधर्मे संभवात् । तथा चोकं रसगङ्गाधरे‘एवं च वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मवाक्यार्थयोरार्थमौपम्यं प्रतिवस्तूपमा'इति। किंच 'आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम्। भ्रमद्भमरसंभारं स्मरामि सरसीरुहम्' इति तदुदाहृतस्मरणालंकारपद्ये तावदौपम्यस्यार्थत्वेऽपि पदार्थगतत्वमेव, स्मृतित्वेन वाक्यार्थगतत्वासंभवादतस्तत्रातिव्याप्तिव्युदासाय वाक्येति ॥ १६७ ॥ एवं प्रतिवस्तूपमां लक्षयित्वा साधर्म्यवैधाभ्यां द्विविधामपि तामुदाहरति-आत्मबोधादित्यादिपूर्वोत्तरार्धाभ्याम् । अत्र स्याद्भूयादित्याख्यातशब्दयोर्भेदेपि प्रतिपाद्यस्य भवत्यस्तिधालोरर्थस्यैक्येन वस्तुप्रतिवस्तुभावापन्नसाधयप्रयुक्तं आत्मबोधादद्वैतात्मविषयकाप्रतिबद्धवशाखीयमहावाक्यैककरणकसाक्षात्काराद्धेतोर्विमुक्तिर्मूलाविद्या तज्ज्ञाप्यद्वैतमिथ्यात्वानुभूतिः स्याद्यथोक्ताधिकारिणो भवेदिति प्रथमवाक्यार्थेन सहभानूदयात्प्रभा भूयादिति द्वितीयवाक्यार्थस्यार्थिकोपमेयोपमानभावसत्वात्साधर्येण लक्षणसंगतिः । यथावा काव्यप्रकाशे-'देवीभावं गमिता परिवारपदं कथं भजत्येषा। न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम्' इति । यथात्र लक्षणसमन्वयस्तथोक्तं प्रदीपे–'अत्र परिवारपदत्वपरिभोगयोग्यत्वयोरनर्थान्तरत्वादुदाहरणत्वमित्येके । कथं भजति न खलु इत्यनयोरेकार्थतया . तथात्वमित्यपरे' इति । यथावा साहित्यदर्पणे नैषधीयचरिते-'धन्यासि वैदर्भि
१ 'मुद्रेतिप्रदीपपाठः'.