________________
कास्तुभरत्नम् ८ ]
सरसामोदव्याख्यासहितम् ।
वयवयोभयेषां चेद्धर्मैक्यं तर्हि दीपकम् । प्रसन्ना प्रमदा पत्या निशि चन्द्रेण चन्द्रिका ॥ १६६ ॥ इत्यादिना तुल्ययोगितोक्ता सैव सरखतीकण्ठाभरणे तु हिताहितवृत्तितौल्याख्यप्रकारान्तरेणोक्तेत्यपरेत्युच्यत इति सूचितं भवति । तस्मादेवं बालैरप्यवबोध्ये स्पष्टतरेत्र विषये दोषोपन्यास: किंमूलक इति निर्मत्सराः सहृदया एव विदांकुर्वन्त्विति दिक् । किंचात्रैव 'न्यञ्चति बाल्ये सुदृशः समुदञ्चति गण्डसीनि पाण्डमनि । मालिन्यमाविरासीद्राकाधिपलव लिकनकानाम्' इत्यत्र 'आविर्भूता यदवधि' इत्यादिप्रागुदाहृते स्वीयपद्य एव 'पाण्डिमा गण्डमूले' इत्यत्रेव रसानने ग्राम्यत्वेन स्वयमेव निन्दितो गण्डपदप्रयोगः कृतः सतु गत्यन्तरविरहात्प्रातदभिहितरसाविष्टचेतोवक्तृकतयैव समाधेय इति शिवम् । अपिचेह ‘प्रिये विषादं जहिहि’ इति वाक्यं ‘प्रिये सरागं वदति प्रियायाः' इत्यायुदाहृते तटस्थवाक्ये द्वितीयप्रियापदप्रयोगे तु निरुक्तसमाधानमपि कठिनमेवेति ॥ १६५ ॥ अथोक्ततुल्ययोगितायाः प्रस्तुताप्रस्तुतवर्णनप्रसङ्गसंगतं दीपकं लक्षयति-वर्ण्यति । वर्ण्याः प्रकृताः पदार्थाः अवर्ण्या अप्रकृताः ईदृशः ये उभये वर्ण्यत्वावर्ण्यत्वावच्छिन्नास्तेषामित्यर्थः । धर्मेति । साधारणधर्मैक्यं चेद्भवति तर्हि दीपकं दीपकालंकारः स्यादिति संबन्धः । तदुक्तं रसगङ्गाधरे - 'प्रकृतानामप्रकृतानां चैकसाधारणधर्मान्वयो दीपकम्' इति । तदुदाहरति-- प्रसन्नेति । नचात्र चन्द्रिकापि प्रकृतैवेति सांप्रतम् । मध्यस्थरात्रिपर्यायीभूतेन निशीति सप्तम्यन्तेन देहलीदीपन्यायेनोभयत्राप्यन्वितेन तथात्वसंभवेऽपि नायिकाया एव वर्ण्यत्वप्रयोजकप्रथमग्रहणेन प्राधान्यध्वननात् । यथावा काव्यप्रकाशे - 'विद्यति कूणति वेल विचलति निमिषति विलोकयति तिर्यक् । अन्तर्नन्दति चुम्बितुमिच्छति नवपरि या वधूः शयने' इति । अत्र टीका जयरामभट्टाचार्यस्य । दयिते परिरम्भोद्यते कूणति मृदुशब्दं करोति वेल्लति संकोचमालम्बते विचलति परिवृत्य शेते निमिषति मृषा नेत्रे मुद्रयति । इदं तु तत्संमतानेकक्रियदीपकम् । यथावा कुवलयानन्दे— ‘मणिः शाणोल्लीढः समरविजयी हेतिनिहतो मदक्षीणो नागः शरदि सरिदश्यानपुलिना । कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नृपाः' इति । यथावा- - 'सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्' इति । यथावा रसगङ्गाधरे – 'अमृतस्य चन्द्रिकाया ललितायाश्चापि कवितायाः । सुजनस्य च निर्माणं जनयति नहि कस्य संतोषम्' इति । यथावा – 'मृतस्य लिप्सा कृपणस्य दित्सा विमार्गगायाश्च रुचिः स्वकान्ते । सर्पस्य शान्तिः कुटिलस्य मैत्री विधातृसृष्टौ नहि दृष्टपूर्वा' इति । यथावा - 'सुजनाः परोपकारं शूराः शस्त्रं धनं कृपणाः । कुलवत्यो मन्दाक्षं प्राणात्यय एव मुञ्चन्ति इति । अत्र सर्वत्र प्रकृताप्रकृतोभयविधानामपि कर्त्रादिका रकाणामेकसाधर्म्यादेकक्रियान्वयात्तुल्ययोगिताया भेदः । तत्र तु प्रकृतानामेव वा
1
३७
४३३