________________
४३२ साहित्यसारम् ।
[ उत्तरार्धे सः' इति । यथावा साहित्यदर्पणे—'दानं वित्तादृतं वाचः कीर्तिधर्मों तथायुषः । परोपकरणं कायादसारात्सारमुद्धरेत्' इति । यथावा कुवलयानन्दे काव्यादर्शमतोपन्यासे-'संगतानि मृगाक्षीणां तडिद्विलसितान्यपि । क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि खयम्' इति । यथावा रसगङ्गाधरे-'प्रिये विषादं जहिहीति वाचं प्रिये सरागं वदति प्रियायाः । वारामुदारा विजगाल धारा विलोचनाभ्यां मनसश्च मानः' । 'न्यश्चति वयसि प्रथमे समुदञ्चति किं च तरुणिमनि सुदृशः। उल्लसति कापि शोभा वचसां च दृशां च विभ्रमाणां च । तत्रैवाग्रे—'दधीचि. बलिकर्णेषु हिमहेमाचलाब्धिषु । अदातृत्वमधैर्य च दृष्टे भवति भासते ॥ वसु दातुं यशो धातुं विधातुमरिमर्दनम् । त्रातुं च सकालां पृथ्वीमतीव निपुणो भवान् ॥ दूरीकरोति कुमतिं विमलीकरोति चेतश्चिरंतनमघं चुलुकीकरोति । भूतेषु किंच करुणां बहुलीकरोति सङ्गः सतां किमु न मङ्गलमातनोति' । अत्र प्रथमे वण्यकनिष्ठं क्रियारूपं धर्मैक्यं, द्वितीये गुणरूपसाधय, तृतीये त्ववर्येषु गुणाभावरूपं तद्रशनारीत्या, चतुर्थे प्रकृताप्रकृतान्यतरक्रियासंबन्धिकारकान्वयलक्षणं साधये, पञ्चमे च पये अर्थान्तरन्यासान्विता तुल्ययोगितेति बोध्यम् । एवमेव प्राक्तनकाव्यप्रकाशायुदाहरणेष्वपि द्रष्टव्यम् । ननु भवत्वेवमथापि रसगङ्गाधरेऽत्रैव यत्त्वलंकारसर्वखकृता तदनुगामिना कुवलयानन्दकृताच गुणक्रियाभिसंबन्धत्वे गुणरूपैकधर्मान्वय इति चोकम् । तदापाततः 'शासति त्वयि हे राजन्नखण्डावनिमण्डलम् । न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः' इत्यत्राभावरूपस्यैव धर्मस्यान्वयादिति कुवलयानन्दं दूषयित्वा गुणक्रियेत्युपलक्षणं वा धर्ममात्रस्येति खयमेव समाधानमप्युपलक्षणविधया विधाय, एवं 'एकस्त्वं दानशीलोऽसि प्रत्यार्थिषु तथार्थिषु' इत्यादावपि दानशीलरूपैकान्वयालक्षणप्रवृत्तिः। यथावा कथंचिदनेकत्रैकान्वयस्य चमत्कारिणोपेक्षितत्वात् । एतेन 'हिताहिते वृत्तितौल्यम्' इत्यादिना तुल्ययोगितायाः प्रकारान्तरं यत्कुवलयानन्दकृता लक्षित. मुदाहृतं च तदपास्तम् । अस्या अपि 'वानामितरेषां वा धमक्यं तुल्ययोगिता' इति पूर्वलक्षणाक्रान्तत्वात् । एकानुपूर्वाबोधितवस्तुकर्मकदानपात्रत्वस्य परं. परया तादृशशब्दस्य प्रागुक्तमार्गेणार्थस्य वा धर्मस्यैक्यात् । 'यश्च निम्बं परशुना' इत्यादिविलिख्यात्रापि कटुत्वविशिष्टनिम्बस्यैव परंपरयावच्छेदकसेचकपूजकधर्मवत्त्वसंभवादित्यादिना कुवलयानन्दोकं तुल्ययोगितान्तरं 'हिताहिते वृत्तितौल्यम्' इत्यादिना यदिह खण्डितं तस्य का गतिरितिचेन्न । तत्खण्डनस्य तद्न्थानवबोधनिबन्धनत्वात् । तद्यथा तत्र तावत् हिताहिते इत्यादिना प्रकृतकारिकां विलिख्याथ दिड्यात्रेण तां व्याख्याय यथावा यश्च निम्बमिति पद्यमुदाहृत्य तदपि किंचि. द्विवृत्य पूर्वोदाहरणं स्तुतिपर्यवसायि इदं तु निन्दापर्यवसायीति भेद इत्यनयोः स्तुत्यादिनैव भेदो लक्षणतस्त्वैक्यमेवेत्यावेद्य इयं सरखतीकण्ठाभरणोक्ता तुल्ययोगितेति कण्ठत एव येयमस्माभिः 'वानामितरेषां वा धर्मैक्यं तुल्ययोगिता'