SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४५० [ उत्तराधे साहित्यसारम् । प्रकृतार्थोपयुक्तार्हव्यङ्गधशालि विशेषणे । भवेत्परिकरः पाहि गुरोऽगस्त्य भवाम्बुधेः ॥ १८९ ॥ रतिमुकुले – 'प्रत्यङ्मुखोऽपि रक्तः पूर्णोऽप्युदयन्कुमुद्वतीः स्पृशति । द्विजराजोऽपि त्यक्त्वा किमित्ययं तारकाः स्वीयाः' इति ॥ १८० ॥ एवं साधारणविशेषणप्रयुक्तसमासोक्तिनिरूपणप्रसक्तं साभिप्रायविशेषणं परिकरं लक्षयति- प्रकृतेत्यादिना । प्रकृतः प्रस्तुतो योऽर्थस्तस्य उपयुक्तमुपपादकमेतादृशमपि तथा अर्ह चमत्कारकारि ईदृशं यद्यङ्गयं व्यञ्जनैकाभिव्यक्तमर्थजातं तच्छालि तेन शालते शोभते तच्छीलं तच्च तदेतच्चेति तथा एतादृशं यद्विशेषणं तस्मिन्सतीत्यर्थः । विशेष्यस्येत्यार्थिकम् । परिकरः एतन्नामकोऽलंकारः भवेदिति संबन्धः । अत्र अत्यनेन हीनव्यङ्ग्यव्युदासः । एवं व्यङ्ग्यपदेन हेत्वलंकारवैलक्षण्यमपि । तथाचोक्तं रसगङ्गाधरे - ' विशेषणानां साभिप्रायत्वं परिकरः । तच्च प्रकृतार्थीपपादकचमत्कारि व्यङ्गयकत्वम् । अत एवास्य हेत्वलंकाराद्वैलक्षण्यम् । तत्र व्यङ्गयस्यानावश्यकत्वादिति । नन्वेवं यद्यस्य व्यङ्गयैकायत्तत्वं तर्हि ध्वन्याख्योत्तमोत्तमकाव्यत्वमेव प्रथनीयं नत्वर्थालंकारत्वेन मध्यमकाव्यत्वमिति चेन्न । प्रकृतार्थालंकारोपस्कारकत्वेन तस्याप्रधानत्वात् । तदप्युक्तं तत्रैव 'व्यङ्ग्यस्य गुणत्वाच्च न ध्वनित्वं व्यपदिश्यते' इति । तमुदाहरति - पाहीत्यादिशेषेण । अयि भवाम्बुधेः संसारसमुद्रस्य अगस्त्य, तद्वन्नाशकेत्यर्थः । अगस्त्येन हि सप्तापि समुद्राः सकृदाचमनमात्रेणैव स्वयोगशक्त्या शोषिताः सुरकार्यविशेषार्थमिति पुराणादिप्रसिद्धमेव तदनन्तपारमतिदुरन्तदुःखदं त्वमिमं संसारसमुद्रमपि स्वकृपाकटाक्षेण सद्यः संशोषयस्यतस्तत्तुल्य एव मम भवसीति भावः । एतादृश अतएव गुरो हे हितोपदेष्टराचार्येत्यर्थः । अत्र भवेत्यादिपञ्चम्यन्तत्वेन पुनरपि योजनीयम् । एवंचाविद्यातव्द्याप्यतत्कार्यात्मकयावद्दृश्यमृगजलनिधेः सकाशादिति यावत् । मामिति शेषः । पाहि रक्षयेत्यन्वयः । अत्र भवाम्बुधेरगस्त्येति गुरोर्विशेषणस्य प्रकृतार्थः स्वकर्मकगुरुकर्तृक संसारसमुद्रापादानकतन्मिथ्यात्वबोधनलक्षणबाधनफलकतदधिष्ठानीभूतख प्रकाशाद्वैतसचिदानन्द ब्रह्मात्मैक्य प्रबोधनद्वारातन्मात्राश्रयविषयकमूलाज्ञानविध्वंसनरूपमोक्षलक्षणसमुद्धरणात्मक एव तत्रोपयुक्तत्वादगस्त्यस्य शुद्धवैदिकशिवभक्तयोगीश्वरब्रह्म विद्वरसार्वभौमत्वेन गुरूपमानध्वनकतद्रूप कार्हत्वादहै परमरमणीयं यद्यज्ञयं दुरन्तदुःखात्मकद्वैतरूपं संसारसमुद्रप्रतियो गिकसद्यःप्रध्वंसनलक्षणक्षमत्वरूपं तच्छालित्वाल्लक्षणसंगतिः । यथावा कुवलयानन्दे - 'सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढाः पापानि कुर्वते' इति । अत्र मंमटभट्टसंमतानि बहून्यपि साभिप्रायविशेषणानीति पूर्वस्माद्विशेषः । अत्र रसगङ्गाधरकारैः कुवलयानन्दग्रन्थखण्डनं यदकारि तत्तदुपसंहार तात्पर्यानवबोधमूलमेव । तद्यथा रसगङ्गाधरेऽत्रैव प्रकरणे तावदुतम् । यत्तु कुवलयानन्दकार आह— 'श्लेषयमकादिष्वपुष्टार्थत्वदोषाभावेन तत्रै
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy