SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । ४५१ कस्यापि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्तिविशेषसद्भावात्परिकरत्वोपपत्तिः । यथा 'क्षितिभृतैव सदैवतका वयं वनवता नवता किमहिनुहा' इति गोवर्धनपर्वतविषयके नन्दादीन्प्रति भगवद्वाक्ये इति । तदसदिति प्रतिज्ञाय तत्र हेवाकाङ्क्षोपशमं यो हीममलंकारं दोषाभावान्तःपातितयाऽलंकारमध्यावहि. र्भावयति स किंवदुक्तश्लेषयमकादिशब्दचित्रातिरिक्तस्थले साभिप्रायविशेषणेषु विच्छित्तिविशेषं मन्यते नवा । आये दोषाभावमात्रेण विच्छित्तिविशेषस्यालं. कारप्रयोज्यस्यालंकारमन्तरेणानिष्पत्तेः । सिद्धं सर्वत्र परिकरस्यालंकारत्वम् । द्वितीयेऽन्यत्रेव यमकादिष्वपि विच्छित्तिविशेषो नास्तीति तेन सुवचत्वादित्या. दिना विकल्पपूर्वकं दूषणमभिधाय यदि च यमकेऽनुभवं विच्छित्तिविशेषे प्रमाणं ब्रूषे ब्रूहि तदान्यत्रापि तमेव प्रमाणमिति यमकपर्यन्तमनुधावनं व्यर्थमेव । तस्मात्पुष्टार्थतारूपेण दोषाभावेन सह परिकरालंकारस्य विषयविभागो दुःशक इति प्राप्ते ब्रूमः । सुन्दरत्वे सत्युपस्कारकत्वमलंकारत्वं चमत्कारापकर्षकाभावत्वं च दोषाभावत्वं, तदेतद्धर्मद्वयं विविक्तविषयं यदि दैवादेकस्मिन्विषयविशेषे समाविशेत्तदा का हानिः स्यादुपधेयसंकरेऽप्युपाध्यसंकरात् । यथा ब्रा. ह्मणस्य मूर्खत्वं दोषो विद्या तु दोषाभावश्च भवति गुणश्च, तहाप्युपपत्तिरित्याग्रुपसंहृतं तदुचितमेव परं त्वेतादृशायुक्तत्वं श्लेषयमकायदाहरणपक्षे मनसि निधायैव दीक्षितस्तत्राग्र उक्तम् । अपिच एकपदार्थहेतुकं काव्यलिङ्गमलंकार इति सर्वसंमतं तद्वदेकस्यापि विशेषणस्य साभिप्रायस्यालंकारत्वं युक्तमेवेति । अत्रायमभिप्रायः । साभिप्रायविशेषणात्मैकोपि पदार्थः दोषविशेषाभावभिन्नत्वे सत्यलंकारविशेष एव । रमणीयत्वे सति रसायुपस्कारकत्वात् । एकपदार्थमात्रहेतुककाव्यलिङ्गालंकारवदिति । यथा काव्यलिङ्गस्य सहेतुकैकपदार्थघटितस्य सकलालंकारिकसंमतविच्छित्तिविशेषपोषकत्वेन निर्हेतुकत्वदोषाभावभिन्नमलंकारविशेषत्वमेव । तथैकस्यापि साभिप्रायविशेषणपदार्थस्य निरुक्तहेतुनैवापुष्टार्थत्वरूपदोषाभावभिन्नं परिकराख्यालंकारविशेषत्वं समुचितमेव । अतएव पण्डितराजैरप्युपसंहारावसरे तावदेवमेवोक्तम् । अन्यथा प्राचां काव्यलिङ्गमप्यलंकारो न स्यात्तस्यापि निर्हेतुरूपदोषाभावात्मकत्वात् । 'द्विजराज कलाधार विश्वतापनिवारण । कथं मामबलां क्रूरैः करैर्दहसि निर्दय' इत्यादौ विशेषणाधिक्याव्यङ्गयाधिक्ये चमत्काराधिक्यमिति । एवंचैकविशेषणपक्ष एवैतेषामपि संमत इति फलति । अतएवैतैरप्यत्रैवोक्तं प्राक् । एकस्यैव विशेषणस्य चमत्कारिताया अनपह्नवनीयत्वात् । 'अयि लावण्यजलाशय तस्या हा हन्त मीननयनायाः । दूरस्थे त्वयि किं वा कथयामो विस्तरेणालम्' इति । यत्तक्तमेतैः–'नचदोषाभावतया प्राप्तस्यापि परिकरस्य किमित्यलंकारेषु गणनागौरवमिति वाच्यम् । उभयात्मकत्वेनेतरवैलक्षण्यज्ञापनार्थतया गणनोपपत्तेः । यथा गुणीभूतव्यङ्गयभेदतया संगृहीतापि समासोक्तिरलंकारगणनायां पुनर्गण्यते । यथावा-'प्रासादवासिषु गणितोऽप्यु
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy